________________
प्राकृतपिङ्गलसूत्रम् ।
जं करअलगण पअ पअ मणिओ चक्कपअह भणु फणिवइ भणिओ || १७७ ॥
२ परिच्छेदः ]
[ संभण चरणगणः पतति मुखे संस्थापय पुनरपि द्विजवरयुगलम् । यत्र करतलगणः पदे पदे ज्ञातचक्रपदं भण फणिपतिर्भणति ॥]
हेमुग्धे, यत्र मुखे आदौ चरणगणो भगणो गुर्वादिगणो यत्र पतति, ततश्च संस्थापंय, पुनरपि द्विजवरयुगलं चतुर्लघुकगणद्वयम्, ततश्च यत्र करतलं सगणो गुर्वन्तगणो यत्रैवं पदे पदे प्रतिचरणं ज्ञातः, तच्चक्रपदं वृत्तमिति फणिपतिर्भणतीति त्वं संभणेति ॥ भूषणे तु प्रकारान्तरेण लक्षणं लक्षितम् — ' कुण्डलकलितनगणमिह तृ ( ? ) तयं गन्धकुसुमरसविरचितवलयम् । चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम् ॥ आदावन्ते च गुरुद्वयम् मध्ये द्वादशलघुभिः पिण्डतो वर्णचतुर्दशात्मकः षोडशकलश्चरणो यत्रेति फलितोऽर्थः ॥
·
चक्रपदमुदाहरति - जहा ( यथा ) --
खज्जणजुअलणअणवरउपमा
चारुकणअलइभुअजुअसुसमा ।
फुल्लकमलमुहि गअवरगमणी
कस्स सुकिअफल विहिगदु रमणी ॥ १७८ ॥ [खञ्जनोपमनयनयुगलवरा
चारुकनकलतासुषमभुजयुगा ।
फुल्लकमलमुखी गजवरंगमना
१६५
कस्य सुकृतफलं विधिघटिता रमणी ॥]
प्राकृते पूर्वनिपातानियमात्खञ्जनोपमनयनयुगलेन वरात्युत्कृष्टा चारुकनकलतासुषमाभुजयुगा । अथ वा- - भुजयुगे चारुकनकलतायाः सुषमा यस्याः । अथ च - फुल्लकमलमुखी गजवरगमना मत्तगजराजगामिनी रमणी विधिना कस्य सुकृतफलं सृष्टा ॥ उवणिका यथा—S॥, ॥॥, ॥॥, ॥८, १४४४=५६ ॥ यथा वा[णीभूषणे ] – 'सुन्दरि नभसि जलदचयरुचिरे देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये किं तव भवति हृदयमिदमदये ॥' चक्रपदं निवृत्तम् ॥