SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६४ काव्यमाला। [कर्णः पतति यत्र प्रथमो जगणश्च द्वितीयो ऽन्ते तुरङ्गः सगणो यश्च तथा पादे । उक्ता वसन्ततिलका फणिनोत्कृष्टा. छेकाः पठन्ति सुरसां सुकवीन्द्रदृष्टाम् ॥] भोः शिष्याः, यत्र प्रथमो गणः कर्णः पतति, जगणो मध्यगुरुको गणो द्वितीयः, ततस्तुरङ्गः सगणः, पुनश्च सगण एव, तथा पादे य अ यश्च आदिलघुर्यगणश्चेत्यर्थः। एवं यत्र चतुर्दशाक्षरं पदं भवति सा फणिनोत्कृष्टा वसन्ततिलकोक्ता तां छेका विदग्धाः सुरसां सुकवीन्द्रदृष्टां पठन्तीति ॥ कुत्रचिदियमेव सिंहोद्धता ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णस्फुरत्कनककुण्डलमण्डिता या भावान्विता चरणसंगतनपुरश्रीः । गन्धान्विता सुरसना वलयावनद्धा कान्ता वसन्ततिलका मुदमातनोति ॥' कान्तापक्षे स्पटोऽर्थः ॥ वसन्ततिलकामदाहरति-जहा (यथा)जे तीय तिक्खचलचक्खुतिहाअदिट्ठा ते कामचन्दमहुपञ्चममारणिज्जा । जेसं पुणो णिवडिआ सअला वि दिट्ठी चिट्ठन्ति ते तिलजलअलिदाणजोग्गा ।। १७६ ॥ ये तस्यास्तीक्ष्णचलचक्षुस्त्रिभागदृष्टा स्ते कामचन्द्रमधुपञ्चममारणीया। येषु पुनर्निपतिता सकलापि दृष्टि स्तिष्ठन्ति ते तिलजलाञ्जलिदानयोग्याः ॥ कर्पूरमञ्जरीसाटकस्थं कर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम् ॥ ये लोकास्तस्यास्तीक्ष्णेन चक्षुषस्त्रिभागेन कटाक्षेण दृष्टा वीक्षिताः, ते कामचन्द्रमधुपञ्चमैर्मारणीया जाताः, येषु पुनर्निपतिता सकलापि दृष्टिः, ते तु तिलाञ्जलिदानयोग्यास्तिष्ठन्ति, पूर्वमेव मृता इत्यर्थः ॥उद्दवणिका यथा-ss,si, us, us,।ऽऽ, १४४४=५६॥ यथा वाणीभूषणे] –'शंभोः करेण पुलकाङ्करदन्तुरेण सस्मेरमामृशति कुम्भमिभाननस्य । रोमाञ्चिताञ्चितकुचान्तचलाञ्चलायाः पायात्रपातरलमीक्षितमम्बिकायाः॥' वसन्ततिलका निवृत्ता॥ अथ चक्रपदच्छन्दः संभणिअ चरणगण पलिअ मुहो संठविअ पुणु वि दिअवरजुअलो।
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy