________________
१६२
काव्यमाला।
अथ चण्डी
नयुगलसयुगलगैरिति चण्डी ॥ १७०॥ यन्नगणद्वयसगणयुगलगुरुभिर्युक्तं भवति तच्चण्डीनामकं वृत्तमिति ॥
यथा
जयति दितिजरिपुताण्डवलीला__ कुपितकवलकरकालियमौलौ । चरणकमलयुगचापलचण्डी
पदनखरुचिजनिभोगमणिश्रीः॥ उद्दवणिका यथा-॥॥ ॥s, us, 5, १३४४-५२ ॥ चण्डी निवृत्ता ॥ अथ मजुभाषिणी
___सजसा जगौ च यदि मञ्जभाषिणी ॥१७१ ॥ यत्र सगणजगणसगणाः, अथ च जगौ जगणगुरू भवतः, तन्मजुभाषिणीछन्दः इति ॥ इयमेव सुनन्दिनीति शंभौ ॥ यथा
अमृतोमिशीतलकरेण लालयं__ स्तनुकान्तिचोरितविलोचनो हरेः । नियतं कलानिधिरसीति वल्लवी
___ मुदमच्युते व्यधित मञ्जुभाषिणी ॥ उद्ववणिका यथा-us, Isi, us, Is), 5, १३४४-५२ ॥ मजुभाषिणी निवृत्ता ॥ अथ चन्द्रिका छन्दः
ननततगुरुभिश्चन्द्रिकाश्चर्तुभिः ॥ १७२ ॥ नगणद्वयतगणयुगलगुरुभिश्चन्द्रिका सप्तट्विरचितविरतिर्भवतीति ॥ यथा
शरदमृतरुचश्चन्द्रिकाक्षालिते
दिनकरतनयातीरदेशे हरिः। विहरति रभसाबल्लवीभिः समं
त्रिदिवयुवतिभिः कोऽपि देवो यथा ॥ यथा वा
'इह दुरधिगमैः किंचिदेवागमैः
सततमसुतरं वर्णयन्त्यन्तरम् ।