________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
१६१ यथा
गुरुभुजवीर्यभरं हरिं मदान्धा __ युधि समुपेत्य न दानवा जिजीवुः । क्षुधितमृगेन्द्रमुखं मृगा उपेत्य
___ व नु खलु बिभ्रति जीवनस्य योगम् ॥ उदृवणिका यथा-II, Isi, II, sis, 5, १३४४ =५२ ॥ मृगेन्द्रमुखं निवृत्तम् ॥ अथ प्रहर्षिणीछन्दः
आ(घ्या)शाभिर्मनजरगाः प्रहर्षिणीयम् ॥ १६८ ॥ मगणनगणजगणरगणगुरुभिः, आशाभिरष्टभिश्च(?) विरतिर्यत्र भवति तत्प्रहर्षिणीछन्द इत्यर्थः ॥
यथा
गोपीनामधरसुधारसस्य पान
रुत्तुङ्गस्तनकलशोपगूहनैश्च । आश्चर्यैः सुखरसविभ्रमैमुरारेः
संसारे मतिरभवत्प्रहर्षिणीह ॥ उद्दवणिका यथा-ऽऽs, , ISI, SIS, 5, १३४४=५२॥ प्रहर्षिणी निवृत्ता ॥ अथ रुचिराछन्दः
जभौ सजौ गिति रुचिरा चतुर्ग्रहैः ॥ १६९ ॥ यत्र जभौ जगणभगणौ, अथ च सजौ सगणजगणौ भवतः, ततो गुरुः, चतुर्भिः, ग्रहैर्नवभिश्च विश्रामो यत्र तद्रुचिरानामकं छन्द इति ॥ यथा
पुनातु वो हरिरतिरासविभ्रमी
परिभ्रमन्त्रजरुचिराङ्गनान्तरे । समीरणोल्लसितलतान्तरालगो
यथा मरुत्तरलतमालभूरुहः ॥ उद्दवणिका यथा-151, su, us, ISI, S, १३४४=५२ ॥ रुचिरा निवृत्ता ॥
१. 'त्र्याशाभिः' इति पाठश्छन्दोमञ्जरीपुस्तके दृश्यते; तस्य 'त्रिभिर्दशभिः' इति व्याख्यानं वरम्. अत एव 'त्रिदशयति:' वृत्तरत्नाकरे पाठ उपलभ्यते.
२१