________________
काव्यमाला ।
[चामरः प्रथमं पापगणो ध्रुवं
शल्यश्चरणगणस्य स्थापय ततो युगलम् । षोडशकलाः पदे पदे ज्ञायन्ते.
पिङ्गलः प्रभणति पङ्कावली."." ॥] हे मुग्धे, यत्र प्रथमं चामरो गुरुः, ततः पापगणः पञ्चकलः सर्वलघुको गणः ध्रुवं निश्चितम्, ततः शल्यो लघुः, ततः पश्चाच्चरणगणजुअ भगणद्वयं स्थापय । एवं च षोडशकलाः पदे पदे ज्ञायन्ते यत्र तत् पङ्कावली छन्द इति पिङ्गलः प्रभणति ॥ वाणीभूषणे तु-'पादे कुसुमरसगन्धमतः शरगण्डकयुगलकरूपमुपाहर। नागनृपतिवरभाषितमुद्दयुति वृत्तममलमिह पङ्कावलिरिति ॥' पङ्कावलिमुदाहरति-जहा (यथा)
सो जग जणमउ सो गुणमन्तउ
जे कर परउअआर हसन्तउ । जो पुण परअआर विरुज्झइ
तासु जणणि किं ण थकइ वञ्झइ ॥ १६६ ॥ [स जगति जातः स गुणवा
न्यः करोति परोपकारं हसन् । . यः पुनः परोपकारं विरुध्यते
_____ तस्य जननी किं न तिष्ठति वन्ध्या ॥] स एव जगति जातः, स एव गुणवान् , यः करोति परोपकारं हसननायासेन । यः पुनः परोपकार विरुध्यते तस्य जननी किमिति वन्ध्यैव न तिष्ठति ॥ यथा वा[णीभूषणे]'शारदविशदनिशामपि निन्दति संप्रति हृदयभिदामनुविन्दति । मन्मथविशिखभयेन निमीलति माधव तव विरहेण विषीदति ॥' उद्दवणिका यथा-5, , , sh, su, १३४४ = ५२ ॥ पङ्कावली निवृत्ता ॥
अथ त्रयोदशाक्षरे प्रस्तार एव कानिचिद्वृत्तानि प्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं मृगेन्द्रमुखं छन्दः
भवति मृगेन्द्रमुखं नजौ जरौ गः ॥ १६७ ॥ यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः, ततो गो गुरुर्भवति तन्मृगेन्द्रमुखं छन्दः ॥