________________
१५२
काव्यमाला।
'अपहर पुरहर मम दरमभिनवकलियुगभयहर । हिमगिरि विहितशयनवर सुकृतसुलभ शशधर ॥' तरलनयनी निवृत्ता । __ अथ सुन्दरीच्छन्दःणगण चामर गन्धजुआ ठवे चमर सल्लजुआ जइ संभवे । रगण एक पदान्त हि देक्खिआ सुमुहि सुन्दरि पिङ्गललक्खिआ १४५ [नगणश्चामरो गन्धयुगं स्थाप्यते चामरः शल्ययुगं यदि संभवति । रगण एकः पदान्ते दृश्यते सुमुखि सुन्दरि पिङ्गललक्षिता ॥] हे सुमुखि, यत्र पूर्व नगणस्त्रिलध्वात्मको गणः, ततश्चामरो गुरुः, तदनन्तरं गन्धयुगं लघुद्वयं स्थाप्यते, ततश्चामरो गुरुः, ततश्च शल्ययुगं लघुद्वयं यदि संभवति, ततश्चैको रगणो मध्यलघुको गणः पादान्ते दृश्यते तत्सुन्दरीनामकछन्दः पिङ्गलेन लक्षितमिति ॥ भूषणे तु–'कुसुमगन्धरसैरतिभूषिता चरणसंगतनपुरमण्डिता । करसुवर्णलसद्वलयान्विता स्फुरति कस्य न चेतसि सुन्दरी ॥' अथ च-तादृशी सुन्दरी नायिका कस्य चेतसि न स्फुरतीत्यर्थः॥ सुन्दरीमुदाहरति—जहा (यथा)वहइ दक्षिणमारुअसीअला रवइ पश्चम कोमल कोइला । महुअरा महुपाणबहूसरा धरइ सुन्दरि संभममादरा ॥ १४६ ॥
[वहति दक्षिणमारुतशीतलो रौति पञ्चमं कोमलं कोकिलः। .
मधुकरा मधुपानबहुस्वरा धरति सुन्दरी संभ्रममादरात् ॥] . कश्चित्स्वमित्रं प्रत्याह-शीतलो दक्षिणो मारुतो मलयानिलो वहति, कोकिल: पिकोऽपि कोमलं पञ्चमं रौति । मधुकरा भ्रमरा मधुपानेन बहुस्वराः सन्तो भ्रमन्ति । अत एतादृशे वसन्ते महोत्सवे जाते सतीयं सुन्दरी कान्ता श्लेषनिमित्तं संभ्रममावेगमादराद्दधातीति ॥ उद्दवणिका यथा-1, 5, 4, 5, , sis, १२४४-४८ ॥ यथा वा[णी. भूषणे]--'असुलभा शरदिन्दुमुखी प्रिया मनसि कामविचेष्टितमीदृशे । मलयमारुतचालितमालतीपरिमलप्रसरो हतवासरः ॥' सुन्दरी निवृत्ता ॥ , अथ द्वादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथम प्रमिताक्षरच्छन्दः [वाणीभूषणे]
करसङ्गिशङ्खवलया सरसा कनकद्वयैकवलया सुभुजा ॥ बरवणिनी रसिकसेव्यपदा प्रमिताक्षरा विजयते वनिता ॥ १४७॥ वनितापक्षे-सुगमोऽर्थः । वृत्तपक्षे-सगणजगणाभ्यां (सगणाभ्यां च) प्रमिताक्षरेति फलितोऽर्थः ॥ अत एव छन्दोमञ्जर्यो 'प्रमिताक्षरा सजससैः कथिता' इत्युक्तमिति ॥