________________
१५३
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यथा [वाणीभूषणे]
अभजद्भयादिव नभो वसुधां दधुरेकतामिव समेत्य दिशः ।
अभवन्मही पदयुगप्रमिता तिमिरावलीकवलिते जगति ॥ अत्र तुरीयचरणे पादान्तलघोर्विकल्पेन गुरुत्वमिति ॥ यथा वा
अमृतस्य शीकरमिवोद्गिरती रदमौक्तिकांशुलहरीछुरिता । प्रमिताक्षरा मुररिपोर्भणितिव्रजसुभ्रुवामभिजहार मनः ।। 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभन्न पतिष्यतः करसहस्रमपि ॥' इति माघकाठ्येऽपि ॥ उटवणिका यथा---us, Isi, us, us, १२४४-४८ ॥ प्रमिताक्षरा निवृत्ता ॥ अथ द्रुतविलम्बितं छन्दः
द्रुतविलम्बितमाह नभौ भरौ ॥ १४८ ॥ नभौ नगणभगणौ, अथ च भरौ भगणरगणौ यत्र तद्रुतविलम्बितवृत्तम् इति शेषनागः पिङ्गल आहेति ॥ यथा
तरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् ।
द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे ॥ यथा वा माघकाव्ये षष्ठसर्गे'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमशोभयत्स सुरभि सुरभिं सुमनोभरैः ॥' . इति ॥ उठ्वणिका यथा-॥, su, su, sis, १२४४=४८ ॥ द्रुतविलम्बितं निवृत्तम् ॥ अथ चन्द्रवर्त्मच्छन्द:
चन्द्रवर्त्म निगदन्ति रनभसैः ।। १४९ ॥ रगणनगणभगणसगणैश्चन्द्रवर्माख्यं वृत्तमाचार्या निगदन्तीति ॥
चन्द्रवर्त्म पिहितं धनतिमिरै राजवर्त्म रहितं जनगमनैः ।
इष्टवर्त्म तदलंकुरु सरसे कुञ्जवम॑नि हरिस्तव कुतुकी ॥ उद्दवणिका यथा-sis, , su, us, १२४४ = ४८ ॥ चन्द्रवर्त्म निवृत्तम् ॥