________________
२ परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । मोदकमुदाहरति-जहा (यथा)गज्जउ मेह कि अम्बर सामर फुल्लउ णीव कि वुल्लउ भम्मर । एकउ जीअ पराहिण अम्मह कीलउ पाउस कीलउ वम्मह ॥१४२॥ [गर्जतु मेघः किं चाम्बरं श्यामलं फुल्लतु नीपः किं च कूजतु भ्रमरः ।
एक एव जीवः पराधीनोऽस्माकं गृह्णातु प्रावृट् गृह्णातु मन्मथः ॥] काचित्प्रोषितपतिका वर्षासमयेऽपि वल्लभमनागतं मत्वातिखिन्नमानसा प्रियसखी. माह-हे सखि, गर्जतु मेघः, श्यामलोऽम्बरे, नीपः कदम्बोऽपि पुष्पितो भवतु । किं च भ्रमरोऽपि कूजतु । अस्माकं तु पराधीनः परायत्त एक एव जीवः तस्मादेनं किं प्रावृट् गृह्णातु, किं वा मन्मथो गृह्णातु, अथवा-उभयोर्मध्ये कोऽपि कीलउ कीलयतु । जडीकरोत्वित्यर्थः ॥ उद्दवणिका यथा- II, su, su, s॥, १२४४ = ४८ ॥ मोदकं निवृत्तम् ॥
अथ तरलनयनीछन्दःणगण गण कर चउगुण सुका कमलमुहि फणि भण । तरलणअणि सब करु लहु सबगुरु जवउ णवरि कहु ॥ १४३ ॥
नगणान्नगणान्कुरु चतुर्गुणान्सुकविः कमलमुखि फणी भणति ।
तरलनयनी सर्वान्कुरु लघून्सर्वगुरुावन्निर्वाह्य कथय ॥] हे कमलमुखि, नगणाः सर्वलघुका गणाः, तांश्चतुर्गुणान्कुरु । एवं च द्वादशापि वर्णाल्लघून्कुरु । प्रतिलोमगत्या प्रस्तारस्य यावत्सर्वगुरुर्भवति तावनिर्वाह्य तरलनयनीनामकमिदं वृत्तम् । ईदृशं सर्वलध्वात्मकं द्वादशवर्णप्रस्तारान्त्यं भवतीति सुकविः पिङ्गलो भणति ॥ वाणीभूषणे तु—'द्विजवरगणयुगमुपनय सकुसुमनगणमिह रचय । सुदति विम• लतरफणिपतिनिगदिततरलनयनमिति ॥ तरलनयनीमुदाहरति-जहा (यथा)कमलवअण तिणअण हर गिरिवरसअण तिसुलधर । ससहरतिलअ गलगरल वितरहि महि अभिमतवर ॥ १४४ ॥ [कमलनयन त्रिनयन हर गिरिवरशयन त्रिशूलधर ।
शशधरतिलक गलगरल वितर मह्यमभिमतवरम् ॥] कश्चिद्भक्तः शिवं प्रार्थयते-हे कमलवदन, हे त्रिनयन, हे हर, हे गिरिवरशयन, हे त्रिशूलधर, हे शशधरतिलकहे चन्द्रशेखर, हे गलगरल, मह्यमभिमतवरं वितर । देहीत्यर्थः ॥ उद्दवणिका यथा-॥, , , , १२४४ = ४८ ॥ यथा वा[णीभूषणे]--
१, ‘एकल (एकल:) रवि०.