________________
१५०
काव्यमाला।
सरैौक्तिकदाम्नोऽतिशोभाकरत्वादिदमपि वृत्तं चतुश्छन्दोभिप्रायेण चतुःषष्टया कलया चतुष्कीकृतं षट्पञ्चाशदधिकशतद्वयमात्राधिकं भवतीति ॥ भूषणेऽप्युक्तम्-‘पयोधरमत्र चतुष्कमवेहि कलाश्चरणे किल षोडश देहि । भुजङ्गपतेर्हृदि मौक्तिकदामसुवृत्तमिदं शृणु मौक्तिकदाम ॥
मौक्तिकदामोदाहरति-जहा (यथा)कआ भनु दुव्वर तज्ज गरास खणे खण जाणिअ अच्छ णिसास । कुहूरवतारदुरन्त वसन्त कि णिद्दअ काम कि णिद्दअ कन्त॥१४०॥
कायो भूतो दुर्बलस्यक्तो ग्रासः क्षणे क्षणे ज्ञायतेऽच्छो निश्वासः । कुहूरवतारदुरन्तो वसन्तः किं निर्दयः कामः किं निर्दयः कान्तः ॥] काचित्प्रोषितभर्तृका सखीमाह-हे सखि, कायो दुर्बलो भूतः, ग्रासस्त्यक्त एव ।क्षणे क्षणे ज्ञायतेऽच्छो निश्वासः । एवं सत्यपि प्राकृते पूर्वनिपातानियमात् तारेणातिदीर्पण कुहूरवाणां कोकिलानां रवेण दुरन्तो वसन्तः । अथवा-कुहूरवाणां कोकिलानां तारेणातिदीर्येण स्वरेण दुष्टोऽन्तो यस्य तादृशोऽयं वसन्तः प्राप्तः, तस्मात्-अथ किं वा कामो निर्दयः मत्प्राणापहारकत्वात् । किं वा कान्तो वल्लभ एव निर्दयः, य एतादृशेऽपि मधुसमये नागत इति ॥ उद्ववणिका यथा-SI, ISI, Isi, ISI, १२४४ = ४८ ॥ यथा वा[णीभूषणे]-'मया तव किंचिदकारि कदापि विलासिनि वाम्यमनुस्मरतापि । तथापि मनस्तव नाश्वसनाय व्रजामि कुतो भवतीमपहाय ॥' मौक्तिकदाम निवृत्तम् ॥
अथ मोदकच्छन्दःतोडअछं विपरीअ टुविज्जसु मोदहछन्दह णाम करिज्जसु । चारिगणा भगणा सुपसिद्धउ पिङ्गल जम्पइ कित्तिहिलुद्धउ ॥ १४१ ॥ [तोटकच्छन्दो विपरीत स्थापय मोदकछन्दो नाम कुरु ।
चत्वारो गणा भगणाः सुप्रसिद्धाः पिङ्गलो जल्पति कीर्तिलुब्धः ॥] हे मुग्धे, तोटकच्छन्दो विपरीतं कृत्वा स्थापय मोदकमिति छन्दसो नाम कुरु । , अयमर्थः-'चतुर्भिः सगणैरन्तगुरुकैर्गणैस्तोटकवृत्तं भवति । तद्विपरीतमादिगुरुकैश्चतुभिर्भगणैर्मोदकं कुरु' इति । तदेव स्पष्टीकृत्याह-चत्वारो भगणा आदिगुरुका गणाः सुप्रसिद्धा यत्र तन्मोदकमिति कीर्तिलुब्धः पिङ्गलो जल्पति । भूषणे तु–‘पादयुगं कुरु नूपुरसुन्दरमाशु करे कुसुमद्वयमाहर । सुन्दरि सर्वजनैकमनोहरमोदकवृत्तमिदं परिभावय ॥
१. 'रवताव (कुहूरवस्तापयति) रवि०. २ 'तु न' भूषणस्थपाठः.