________________
प्राकृतपिङ्गलसूत्रम् ।
अथ सारङ्गः
जा चारितकारसंभे अडकिट्ट सारङ्गरूअक सो पिङ्गले दिट्ठ । जातीव सामसंजुत्त पाएहि णाजाणिए कान्ति अण्णोष्णभाएहि १३७ [यच्चतुस्तकारसंभेदोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेन दृष्टम् ।
यच्च तृतीयविश्रामसंयुक्तं पादेषु न ज्ञायते कान्तिरन्योन्यभागेषु ॥]
२ परिच्छेदः ]
-
१४९
भोः शिष्याः, यच्चतुस्तकारस्य तगणचतुष्टयस्य सम्यग्भेदेनोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेनैव दृष्टम्, यच्च पादेषु चरणेषु तृतीये वर्णे विश्रामसंयुक्तं न ज्ञायते कान्तिरस्य च्छन्दसोऽन्योन्यभागेन प्रस्ताररीत्येत्यर्थः ॥ भूषणे तु - 'कर्ण ध्वजं जोहलं चामरं हि चिह्नं सतालं सदा संविधेहि । ख्यातं तथा पिङ्गलाधीश्वरेण सारङ्गमेतच्चतुर्होरकेण ॥' चतुहींर केण चतुर्भिस्तगणैरित्यर्थः ॥ पञ्चकलप्रस्तारेऽन्तलघोः पञ्चकलस्य हीरकमिति संज्ञा, वर्णवृत्ते तु तस्यैव तगणसंज्ञेत्युक्त एवार्थः इति ॥
सारङ्गमुदाहरति — जहा (यथा) -
रे गोड कन्तु तो हत्थजूहाइ पलट्टि जुडन्ति पाइकवूहाई । कासीसराआसरासारअग्गेण की हत्थि की पत्ति की वीरवग्गेण ॥ १३८ ॥ [रे गौड तिष्ठन्तु ते हस्तियूथानि परावृत्य युध्यन्ते पत्तिकव्यूहानि । काशीशराजशरासाराग्रे किं हस्तिभिः किं पत्तिभिः किं वीरवर्गेण ॥]
रे इति साक्षेपं संबोधनम् । गोड गौडदेशाधीश, तव हस्तियूथानि गजराजवृन्दानि थक्कन्तु क्षणं तिष्ठत्वित्यर्थः । यतः पाइकवूहाई पत्तित्रातानि परावृत्य युध्यन्ते । यद्वा हस्तियूथविशेषणं पदातिबहुलानीति । वस्तुतस्तु काशीशराजस्य शरासाराः बाणपरम्परास्तेषामग्रे किं हस्तिभिः, किं वा पत्तिभिः, किं वा वीरवर्गेण महासुभटसमुदायेनेति ॥ उट्टवणिका यथा – ss, ssI, SSI, SSI, १२४४ = ४८ ॥ सारङ्गी निवृत्तः ॥ अथ मौक्तिकदामच्छन्दः
पओहर चारि पसिद्धह ताम तितेरहमत्तह मोत्तिअदाम ।
-
ण पूव्वहि हार ण दिज्जइ अन्त विहूसअ अग्गल छप्पण मत्त ॥ १३९ ॥ [ पयोधराश्चत्वारः प्रसिद्धास्तत्र त्रित्रयोदशमात्राभिर्मौक्तिकदाम ।
न पूर्वं हारो न दीयतेऽन्ते द्विशती षट्पञ्चाशदधिका मात्राणाम् ॥]
भोः शिष्याः, यत्र पदे चत्वारः पयोधरा जगणा गुरुमध्यमा गणाः प्रसिद्धास्तत्र त्रिभिरधिकास्त्रयोदश । अर्थात् षोडशमात्राभिः पदं यत्र तन्मौक्तिकदाम छन्दो भवति । अत्र च न पूर्व हारो गुरुः, न चान्ते दीयत इति ॥ समुदितमात्रासंख्यामाह - षट्पञ्चा - शदधिकं शतद्वयं मात्राणामिति । अयमर्थः - षोडशचतुष्केण चतुःषष्टिः, तत्र चतुर्भिः