________________
१४८
काव्यमाला |
[भञ्जिता मालवा गञ्जिता: कानला निर्जिताः कुक्कुटा लुण्ठिता गुर्जराः । वङ्गा भग्ना उत्कला मोटिता म्लेच्छाः कर्तिताः कीर्तयः स्थापिताः ॥ ]
कश्चिद्वन्दी कर्ण स्तौति — येन कर्णेन मालवा देशविशेषा भञ्जिता आमर्दिताः, कानलाश्च देशविशेषा गञ्जिताः, कुक्कुटा अपि निर्जिताः, गुर्जरा लुण्ठिताः, वङ्गा वङ्गदेशा भाः, उत्कला मोटिताः, म्लेच्छाश्च कर्तिताः । लवशः खण्डिताः इत्यर्थः । अतः सर्वत्र कीर्तिः स्थापिता येन स कर्णो जयतीति प्रबन्धस्थेन कर्त्रा सह संबध्यते ॥ उट्टवणिका यथा—S, I, SS, I, SS, I, SS, I, S, १२४४ = ४८ ॥ यथा वा[णीभूषणे ] — ‘रासकेलीकलोल्लाससंभावितं गोपसीमन्तिनीवृन्दसंलालितम् । राधया गीतसंमुग्धयालिङ्गितं नौमि गोपालकं देवकीबालकम् ॥ स्रग्विणी निवृत्ता ॥
अथ तोटकच्छन्द:
सगण हुअ चारि पलन्ति जही गण सोलहमत्त विराम कही । तह पिङ्गलअं भणिअं उचिअं इह तोटअछन्दवरं रचिअम् ॥ १३५ ॥
[ सगणा ध्रुवं चत्वारि पतन्ति यत्र गणेषु षोडशमात्रासु विरामः कथितः । तथा पिङ्गलेन भणितमुचितमिह तोटकछन्दोवरं रचितम् ॥]
भोः शिष्याः, यत्र ध्रुवं निश्चितं चत्वारः सगणा गुर्वन्तगणाः पतन्ति गणेषु षोडशमात्रासु विरामः कथितः । तथा पिङ्गलेन भणितमुचितं यत्तदिह लोके छान्दसिकैस्तोटकमिति छन्दोवरं रचितमिति ॥ भूषणेऽप्युक्तम्- 'विनिधेहि चतुः सगणं रुचिरं रविसंख्यक वर्णकृतं सुचिरम् । फणिनाय कपिङ्गलसंभणितं कुरु तोटकवृत्तमिदं ललितम् ॥' 'वद तोटकमब्धिसकारयुतम्' इत्यन्यत्रापि ॥
तोटकमुदाहरति- जहा (यथा ) -
चल गुञ्जर कुञ्जर तज्जि मही तुअ वव्वर जीवण अज्जु नही । जइ कोपर कण्णणरेन्दवरा रण को हरि को हर वज्जहरा ॥ १३६॥
[चल गुर्जर कुञ्जरांस्त्यक्त्वा महीं तव बर्बर जीवनमद्य नहि ।
यदि कुप्यति कर्णनरेन्द्रवरो रणे को हरिः को हरो वज्रधरः ||]
·
.
गुर्जर गुर्जराधिपते, कुञ्जरान्महीं च त्यक्त्वा चल । अपस रेत्यर्थः । हे बर्बर वृथाप्रलापिन्, तव जीवनमद्य नास्ति । यदि कुप्यति कर्णनरेन्द्रः, तदा रणे को हरिः को वा हरः, को वज्रधरः । कुपितस्य तस्य पुरत एते देवा अपि स्थातुमशक्ताः किमुत त्वम् | अतः सर्वमपि वस्तुजातं विसृज्य महीमपि त्यक्त्वा पलायनमेवोचितमिति गुर्जरदेशाधिपतिं प्रत्यमात्यवचनम् ॥ उट्टवणिका यथा - ॥, ॥s, ॥, ॥s, १२x४ = ४८ ॥ तोटकं निवृत्तम् ॥