________________
१४७
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । शती मात्राणां समग्रा संख्या भवतीति पिङ्गलो भणति ॥ वाणीभूषणेऽप्युक्तम्-'यदा वृत्तयो गन्धकर्णक्रमेण भवेयुश्चतस्रो वरं वृत्तमेतत् । भुजङ्गप्रयातं हरिप्रीतिहेतोर्भुजङ्गाधिराजस्तदा संजगाद ॥ ॥
भुजङ्गप्रयातमुदाहरति-जहा (यथा)महामत्तमाअङ्ग पाए ठवीआ तहा तिक्खवाणा कडक्खे धरीआ। भुआ फास भोहा धनूहा समाणा अहोणाअरी कामराअस्स सेणा १३२ [महामत्तमातङ्गः पादे स्थापितस्तथा तीक्ष्णबाणा कटाक्षे धृताः । भुजा पाशानि भ्रुवो धनुषा समानाहो नागरी कामराजस्य सेना ॥] . अहो इत्याश्चर्ये । इयं कामराजस्य मदननरपतेः सेना, नागरी अतिकुशला। राजत इति शेषः । यद्वा-इयं नागरी कंदर्पभूमीपतेः सेनेव भाति । सेनासामग्रीमाह-एतस्याः पाए चरणे महामत्तमातङ्गः स्थापितः । गजगमनेति भावः । अथ-एतस्याः कटाक्षेऽपाङ्गे तीक्ष्णबाणाः स्थापिताः । तथैव च भ्रुवोः समानं शुद्धं धनुः स्थापितमिति ॥ उह. वणिका यथा-iss, Iss, Iss, Iss, १२४४ = ४८ ॥ यथा वाणीभूषणे]-'निशायां तमःपूरसंपूरितायां प्रयान्ती रहस्त्वत्समीपं समुक्ता । अकस्मात्समालोक्य मामन्तिके ते तदा हीयुता तोयराशेः सुता स्यात् ॥' उवणिकापि प्रकारान्तरेण यथा।, ss, ।, ss, i, ss, I, ss, १२४४ = ४८ ॥ भुजङ्गप्रयातं निवृत्तम् ॥
अथ लक्ष्मीधरच्छन्दःहार गन्धा तहा कण्ण गन्धा उणो कण्ण सहा तहा तो गुरूआ गणो। चारि जोहा गणा णाअराआ भणो एहुरूएण लच्छीहरो सामुणो॥१३३।। [हारो गन्धस्ततः कर्णो गन्धः पुनः कर्णः शब्दस्तथा तो गुरुगण्यते । चत्वारो योधा गणा नागराजो भणत्येतद्रूपेण लक्ष्मीधरो ज्ञातव्यः ॥] भोः शिष्याः, यत्र प्रथमं हारो गुरुः, ततो गन्धो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः पुनर्गन्धो लघुरेव तदनन्तरं कर्णः, ततः शब्दो लघुः, तथा तो तकारस्तगणोऽन्त्यलघुगण इत्यर्थः । ततोऽपि गुरुगण्यते । एवं द्वादशवर्णात्मकं पदम् । उक्तलक्षणमेवोत्तरार्धन स्पष्टीकरोति-चारीति । चत्वारो जोहा गणा रगणा मध्यलघुका गणा यत्रैतद्रूपं लक्ष्मीधर इति ज्ञातव्यमिति नागराजः पिङ्गलो भणति ॥ वाणीभूषणेऽप्युक्तम्-'द्वादशैर्वर्णकैनिर्मितं सततं तद्धि लक्ष्मीधरं वृत्तमाकीर्तितम् । दृश्यते यच्चतुर्बोहलैरङ्कितं पनगाधीशवाणीविनोदायितम् ॥' चतुर्बोहलैश्चतुर्भी रगणैरित्यर्थः ॥ ग्रन्थान्तरे तु 'स्रग्विणी' इति नामान्तरम् ॥ अत एव छन्दोमार्याम्-'कीर्तितैषा चतूरेफिका स्रग्विणी' इत्युक्तम् ॥
लक्ष्मीधरमुदाहरति-जहा (यथा)भनिआ मालवा गञ्जिआ काणला णिञ्जिआ कुकुडा लुट्टिआ गुञ्जरा । . वङ्गआभङ्गआओडिआ मोडिआ मेच्छआकण्णिआकित्तिआ थप्पिआ॥