________________
- काव्यमाला।
[विषं कण्ठे वासो दिशः शीर्षे गङ्गा नागराजः कृतो हारो गौर्यङ्गे । ' गात्रे चर्म मारितः कामो लब्धकीर्तिः स देवः सुखं ददातु युष्मभ्यं भक्त्या ॥]
स इति प्रसिद्धो दीव्यतीति देवः अप्रतिहतक्रीड: परमशिवोऽनाद्यन्तो नित्यविहरणशीलः । तदुक्तं योगवासिष्ठे–'न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः । आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः । अकृत्रिममनाद्यन्तं देवनं देव उच्यते ॥' इति प्रतिपादितलक्षणः तुम्हा युष्मभ्यं भक्त्या तोषितः सन् सुखं निरतिशयानन्दचिन्मयास्वादल. क्षणं ददातु । स कः । यस्य विषं कण्ठे, कालकूटपानात् । यस्य वासो दिक् । दिगम्बर इत्यर्थः । यस्य शीर्षे गङ्गा । गङ्गाधर इत्यर्थः । येन नागराजः शेषो हारः कृतः।येन च गौरी पार्वती अर्धाङ्गे धृता । अथ च गात्रे चर्म गजाजिनं च धृतम् । येन च कामः कंदो मारू मारितो दग्धः । अत एव तेन तेन कर्मणा प्राप्ता कीर्तिर्येन तादृशो वः सुखदोऽस्त्विति ॥ उट्टवणिका यथा-ss, ss, ss, ss, ss, ss, १२४४ = ४८ ॥ विद्याधरो निवृत्तः ॥
अथ भुजङ्गप्रयातं छन्द:धओ चामरो रूअओ सेस सारो ठए कण्ठए मुद्धए जत्थ हारो । चउच्छन्द किज्जे तथा सुद्धदेहं भुअङ्गापआरंपए वीसरेहम् ॥१३०॥ [ध्वजश्चामर (एवं)रूपः शेषः सर्वः स्थाप्यते कण्ठे मुग्धे यथा हारः । चतुश्छन्दः क्रियते तथा शुद्धदेहं भुजङ्गप्रयातं पदे विंशतिरेखम् ॥]
हे मुग्धे, यत्र धओ ध्वज आदिलघुस्त्रिकलः प्रथमं भवति, ततश्चामरो गुरुः, एवं रूपक्रमेण शेषः संपूर्णश्चरणः स्थाप्यते । तद्विस्तारमाह-यथा हारो मुक्ताहारश्चतुर्भिः सरैः क्रियते, तथा इदमपि शुद्धदेहम् । उट्टवणिकसमीकृतं गणं पदे विंशतिरेखाः कला यस्य तादृशं भुजङ्गप्रयातं चतुर्भिश्छन्दोभिः किजे कर्तव्यमित्यर्थः ॥ उक्तमेव प्रकारान्तरेण गाथाछन्दसा व्यक्तीकृत्याह-- अहिगण चारि पसिद्धा सोलहचरणेण पिङ्गलो भणइ । तीणि सआ वीसग्गल मत्तासंखार्समग्गा इ ॥ १३१ ॥ [अहिगणाश्चत्वारः प्रसिद्धाः षोडशचरणेन पिङ्गलो भणति ।
त्रीणि शतानि विंशत्यधिकानि मात्रासंख्यासमग्रा भवति ॥] यत्र प्रथमं अहिगण आदिलघुः पञ्चकलोऽर्थात् यगणाश्चत्वारः पदे प्रसिद्धाः समस्तेषु छन्दोग्रन्थेषु 'भुजङ्गप्रयातं चतुर्भिर्यकारैः' इति प्रसिद्धाः । अथ च-यगणस्य पञ्चकलत्वात्पदे विंशतिः कलाः । एवंरूपं षोडशचरणेन चतुश्छन्दोभिप्रायेण विंशत्यधिका त्रि.
१. 'कहइ (कथयति)' रवि०. २. 'समग्गाइ (समग्राणि) रवि०.