SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । मगणगुरुनगणद्वयगुरुभिर्भमरविलासितानामकं छन्दो भवति ॥ यथा मुग्धे मानं परिहर न चिरात्तारुण्यं ते सफलयतु हरिः । फुल्ला मल्ली भ्रमरविलसिताभावे शोभां कलयति किमु ताम् ॥ उद्दवणिका यथा-sss, s, ,, 5, ११४४ = ४४ ॥ भ्रमरविलसिता निवृत्ता॥ अथ मोटनकच्छन्दः स्यान्मोटनकं तजजाश्च लगौ ॥ १२७ ॥ तगणजगणद्वयलघुगुरुभिर्मोटनकनामा च्छन्दः ॥ यथा रङ्गे खलु मल्लकलाकुशलश्चाणूरमहाभटमोटनकम् । यः केलिलवेन चकार समे संसाररिपुं प्रतिमोटयतु ॥ अत्र तुरीयचरणे पादान्तलघोर्वैकल्पिकं गुरुत्वं ज्ञेयम् ॥ उद्दवणिका यथा-ss), ।।, s, 1, 5, ११४४ = ४४॥अत्रापि प्रस्तारगत्या रुद्र (११) संख्याक्षरस्याष्टचत्वारिंशदधिकं सहस्रद्वयं २०४८ भेदा भवन्ति। तत्र कियन्तोऽपि भेदाः प्रोक्ताः, शेषा भेदाः सुधीभिः प्रस्तार्य समूहनीया इति ॥ अथ द्वादशाक्षरप्रस्तारे प्रस्तारादिभूतं विद्याधरनामकं छन्दोऽभिधीयतेचारी कण्णा पाए दिण्णा सव्वासारा पाआअन्ते दिज्जे कन्ता चारी हारा। छण्णावेआ मत्तागण्णा चारी पाआ विज्जाहारा जम्पे साराणाआराआ। [चत्वारः कर्णाः पादे दत्ताः सर्वसाराः पादान्ते दीयन्ते कान्ताश्चत्वारो हाराः। षण्णवतिर्मात्रा गणिताश्चतुर्पु पादेषु विद्याधरं जल्पति सारं नागराजः ॥] भोः शिष्याः, यत्र सर्वसारभूताश्चत्वारः कर्णा द्विगुरवो गणाः पादे दीयन्ते, पादान्ते कान्ताश्चत्वारो हारा गुरवश्व दीयन्ते । एवं द्वादशापि वर्णाः पादे गुरवः कर्तव्या इत्यर्थः । तत्र पदचतुष्टयेऽपि द्वादशचतुष्केण समुदिता वर्णा अष्टचत्वारिंशत् । तद्विगुणाभिप्रायेण मात्राः षण्नवति (९६) गणिता यत्र तच्छन्दःसु सारं श्रेष्ठं विद्याधरनामकं छन्दो भवतीति नागराजः पिङ्गलो जल्पतीति ॥ विद्याधरमुदाहरति-जहा (यथा)वीसा कण्ठा वासू दीसा सीसा गङ्गा णाआराआ किज्जे हारागौरी अगा। गत्ते चम्मा मारू कामा लिज्जेकित्ती सोई देऊ सुक्खं देऊ तुम्हा भत्ती॥ १. 'जासू कण्ठा वीसा दिठ्ठा (यस्य कण्ठे विषं दृष्टम्) रवि०. २. ‘णारी (नारी) रवि०. ३. 'कन्धे रामा (गर्वेणाभिरामः) रवि०. ४. 'सजे (सक्ता) रवि०.५. 'उम्माभत्ता (उमाभर्ता) रवि०. १९
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy