________________
१४४
काव्यमाला ।
कामिनीपक्षेऽर्थः स्पष्टः ॥ 'रात्परैर्नरलगै रथोद्धता' इति च्छन्दोमञ्जर्या राद्रगणात्परैगणगणलघुगुरुभी रथोद्धताछन्दः ॥
यथा—
दीर्घघोषकुलदेवदीर्घिकापङ्कजं रविकारो व्यराजत । ईर्ष्ययैव दुहितुः पयोनिधेर्यत्र वासमकरोत्सरस्वती ॥
उवणिका यथा - S, ISI, II, I, S, I, S११x४ = ४४ ॥ यथा वा [णीभूषणे ] -- राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदे रथोद्धता |
यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात् ||
उट्टवणिका यथा — SIS, III, SIS, I, S, ११x४ = ४४ ॥ इति रथोद्धता निवृत्ता ॥ अथ स्वागताछन्दः
हारिणी कनककुण्डलयुक्ता पुष्पपुष्करयुगा वलयश्रीः ।
वर्णिताहि पतिवऋसहस्रैः स्वागता हरति कस्य न चेतः ॥ १२४ ॥
अथ च स्वयमेवागता स्वागता सुन्दरमागतमागमनं यस्या वेति तादृशी नायिका कस्य न मानसं हरतीति ध्वनिः ॥ ' स्वागता रनभगैर्गुरुणा च' इति छन्दोमञ्जर्या रगणनगणभगणगुरुभिर्गुरुणा च स्वागता भवतीत्युक्तम् । यथा
पङ्कजं तदपि पाथसि मग्नं चन्द्रमाः स च घनान्तरितोऽ नोऽभूत् । त्वन्मुखेन्दुहतयापि विनोदं नैव हन्त सहते हतरेखा ||
उवणिका यथा---S, I, S, I, IS, IS, S, ११४४ = ४४ ॥ यथा वा [णीभूषणे ] - यस्य चेतसि सदा मुरखैरी बलबीजनविलासविलोलः । तस्य नूनममरालयभाजः स्वागतादरकरः सुरवर्गः ॥ उणिका यथा - SIS, II, si, ss ११४= ४४ ॥ स्वागता निवृत्ता ॥ अथानुकूलाछन्दः---
स्यादनुकूला भतनगगाचेत् ॥ १२५ ॥ भगणतगणनगणगुरुगुरवश्चेद्भवन्ति तदानुकूलाभिधं छन्दो भवति ॥ यथाबलववेषा मुररिपुमूर्तिर्गोपमृगाक्षीकृतरतिपूर्तिः ।
वाञ्छित सिद्धौ प्रणतिपरस्य स्यादनुकूला जगति न कस्य ॥ उवणिका यथा – S॥, SSI, II, SS, ११× ४ = ४४ ॥ अनुकूला निवृत्ता ॥ अथ भ्रमरविलसितच्छन्दः
मोगो नौ गो भ्रमरविलसितम् ।। १२६ ।।