________________
१२६
काव्यमाला ।
स्तारगत्याष्टाक्षरस्य षट्पश्चाशदधिकं द्विशतं भेदाः । तेषु कियन्तो भेदा उदाहृताः । शेपभेदा उहनीयाः सुबुद्धिभिरिति ॥
अथ नवाक्षरप्रस्तारे महालक्ष्मीछन्दःदिट्ट जोहा गणा तिण्णिआ णाअराएण जा विण्णिआ । मासअद्धेण पाअ ट्ठिअं जाण मुद्धे महालच्छिअम् ॥ ७७ ॥
[दृष्टा योधा गणास्त्रयो नागराजेन ये वर्णिताः ।
मासार्धेन पादे स्थितां जानीहि मुग्धे महालक्ष्मिकाम् ॥] हे मुग्धे, यत्र नागराजेन पिङ्गलेन ये वर्णितास्ते त्रयोऽत्र जोहागणा रगणाः । मध्यलघुका गणा इति यावत् । दृष्टाः । अतो नवाक्षरं पदम् , पदे च मासार्धसंख्याभिः पञ्चदशभिर्मात्राभिः स्थितां महालक्ष्मिकां जानीहि । तदुक्तं वाणीभूषणे-'दृश्यते पक्षिराजत्रयं यत्र वृत्ते मनोहारके । संततं पिङ्गलेनोदिता सा महालक्ष्मिका कीर्तिता ॥' महालक्ष्मीमुदाहरति-जहा (यथा)मुण्डमाला गला कण्ठिआ णाअराआ भुआ सद्विआ। वग्यछल्ला किआवासणा चण्डिआ पाउ सिंहासणा ॥ ७८ ॥
मुण्डमाला गले कण्ठिका नागराजो भुजे संस्थितः ।
व्याघ्रकृत्त्या कृतवसना चण्डिका पातु सिंहासना ।।] सा सिंहासना सिंहाधिरूढा चण्डिका वः पातु । सा का । यस्या गले मुण्डानां माला कण्ठिका कण्ठभूषेत्यर्थः । यस्या नागराजो भुजायां संस्थितः । कथंभूता चण्डिका । व्याघ्रकृत्या पुण्डरीकचर्मणा कृतं वसनं वस्त्रं यया तथाभूता वः पात्विति ॥ उद्दवणिका यथा-SIS,SIS,sis, ९४४-३६ ॥ महालक्ष्मी निवृत्ता ॥ अथ सारङ्गिका छन्दःदिअवर कण्णो सअणं पअ पण मत्तागणणम् ।
सुरमुणिमत्ता लहिअं सहि सरगिका कहिअम् ॥ ७९ ॥ , द्विजवरः कर्णः सगणः पदे पदे मात्रागणनम् ।
शरमुनिमात्रा लभ्यन्ते सखि सारङ्गिका कथिता ॥] हे सखि, यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः, ततः कर्णो द्विगुर्वात्मको गणः, ततः सगणोऽन्तगुरुर्गणः, एवंप्रकारेण यत्र पदे पदे मात्रागणनं क्रियत इति शेषः । तदेवाह-शराः पञ्च मुनयः सप्त मिलित्वा द्वादश मात्राः पादे लभ्यन्ते यस्याः सा सार
१. 'मासअद्धेण पाअ च्छिों (पञ्चदशकलया छिन्ना कृतयतिः) इति रवि०.