________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
१२७
ङ्गिका कथ्यते द्विजवर कर्णसगणैर्नवाक्षरपदसारङ्गिका छन्द इति फलितोऽर्थः ॥ तथा च वाणीभूषणे - 'द्विजवर कर्णौ सगणं विरचय यस्याश्चरणम् । जमदभिरामं हि तया भवति हि सारङ्गिका ॥ '
सारङ्गिकामुदाहरति — जहा (यथा ) -
-
हरिणसरिस्साणअणा कमलसरिस्सावअणा |
जुअजणचित्ताहरिणी पिअसहि दिट्ठा तरुणी ॥ ८० ॥
[हरिणसदृशनयना कमलसदृशवदना ।
युवजनचित्तहरिणी प्रियसखि दृष्टा तरुणी || ]
हे प्रियसखि, त्वया सा दृष्टा । कीदृशी । हरिणसदृशं नयनं चञ्चलत्वात्तदुपमा यस्याः सा एणाक्षीत्यर्थः । कमलसदृशं विकचं सुगन्धि च वदनं यस्याः सा तथा पुनर्युवजनानां चित्तं हरति तच्छीला इति कस्याश्चित्सख्याः सखीं प्रति वचनम् ॥ उवणिका यथा॥॥,ऽऽ,॥ऽ, ९×४=३६ ॥ यथा वाणीभूषणे - ' प्रणमत राधारमणं नृगनृपबाधाशमनम् । असुरमदापाहरणं यदुकुलचूडाभरणम् ॥' सारङ्गिका निवृत्ता ॥
अथ पाइत्ताछन्दः -
कुन्तीपुत्ताजुअ लहिअं तीए विप्पो धुअ कहिअम् ।
अन्ते हारो जह जणिअं पाइत्तारू फणिभणिम् ॥ ८१ ॥ [कुन्तीपुत्रयुगं लभ्यते ततो विप्रो ध्रुवं कथितम् ।
अन्ते हारो यत्र जन्यते पाइत्तारूपं फणिभणितम् ॥]
भोः शिष्याः, यत्र कुन्तीपुत्रः कर्णस्तयोर्युगं तेन गुरुचतुष्टयं पूर्वं यत्र लभ्यते तीए ततस्तृतीये वा स्थाने ध्रुवं निश्चितं विप्रश्चतुर्लघुको गणः कथ्यते । यत्र चान्ते चरजाते हारो गुरुर्जन्यते तदेतत् 'पाइत्ता' छन्दसो रूपं फणिना पिङ्गलेन भणितम् ॥ तथा चोक्तं भूषणे - 'आदौ कर्णद्वयललितं कृत्वा विप्रं गुरुसहितम् । तद्वृत्तं पिङ्गलभणितं पाइत्तेति श्रवणहितम् ॥'
पाइत्तामुदाहरति - जहा (यथा ) -
फुल्ला णीवा भम भमरा दिट्ठा मेहा जलसभरा ।
णचे विज्जू पिंअसहि आ आवे कन्ता सहि कहिआ || ८२ ॥ [ फुल्ला नीपा भ्रमन्ति भ्रमरा दृष्टा मेघा जलसभराः ।
नृत्यति विद्युत्प्रियसख्यत आगमिष्यति कान्तः सखि कथय ॥]
१. 'पाइत्तारूअ उ कहिअम् (पाइत्तारूपं तु कथितम् ) ' इति रवि ० . २. 'पिअसहिआ ( प्रियसहिता ) ' इति रवि ०.