________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
१२५ यथा-'चञ्चलचूडं चपलैर्वत्सकुलैः केलिपरम् । ध्याय सखे स्मेरमुखं नन्दसुतं माणवकम् ॥' उद्दवणिका यथा-5॥ sss x४-३२ ॥ माणवकक्रीडितकं निवृत्तम् ॥ अथानुष्टुप्छन्द:
लघु स्यात्पञ्चमं यत्र गुरु षष्ठं च सप्तमम् ।
द्वितुर्यपादयोहूस्वमष्टाक्षरमनुष्टुभम् ॥ यत्र च्छन्दसि पञ्चममक्षरं चरणचतुष्टयेऽपि लघु तथैव षष्ठं गुरु द्वितीयचतुर्थयोः पा. दयोः सप्तमं द्वस्वं लस्वित्यर्थः । शेषवर्णा अनियता यत्र। एवमष्टाक्षरं वृत्तमनुष्टुभं जानीयादिति शेषः । अन्यत्रापि–'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयाच्छेषास्त्वनियता मताः ॥' इति ॥
यथा
हृदयं मदयन्त्येते मदोन्मत्ताः शिलीमुखाः ।
विषाक्ताः पुष्पधनुषो मूर्ता इव शिलीमुखाः ॥ अत्र क्रमेण 'अलिवाणौ शिलीमुखौ' इत्यमरनिर्देशादर्थोऽवगन्तव्य इति ॥ उद्दवणिका यथा-susss,ISISissa,॥ इदमेव हलायुधवृत्त्यादिषु च्छन्दोग्रन्थेषु नानागणभेदेन विषमवृत्तेषु वक्रसंज्ञां लभते । सकलपुराणेषु च साधारण्येनाष्टाक्षरपादस्यानुष्टबिति प्र. सिद्धिः । विशेषतस्तु विद्युन्मालादीनि वृत्तान्यष्टाक्षरप्रस्तारे दर्शितानि । अत एव च्छन्दोमञ्जर्यामेकाक्षरादिषड्विंशत्यक्षरपादानां वृत्तानां पृथक्पृथक्साधारणसंज्ञाः प्रोक्ताः । यथा
'आरभ्यैकाक्षरात्पादादेकैकाक्षरवधितैः । पादैरुक्थादिसंज्ञा स्याच्छन्दःषड्डिशतिं गता ॥ उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप्च बृहती पतिरेव च ॥ त्रिष्टुप्च जगती चैव तथातिजगती मता। शर्करी चातिपूर्वा स्यादष्टयत्यष्टी ततः स्मृते ।। धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः ॥
इत्युक्ता छन्दसां संज्ञाः' इति । विशेषतस्तु तत्र तत्र प्रस्तारे तत्रैव संज्ञा ज्ञातव्या । इत्यास्तां विस्तरेण ॥ अत्र प्र