SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२४ काव्यमाला । कमले बद्धानां भ्रमराणां जीवो जीवनदाता बन्धनमोचनादिति भावः । सकलभुवनदीपस्त्रिभुवनप्रकाशकत्वादिति भावः । दलितस्तिमिरस्य डिम्ब उपप्लवो येन । 'प्रादुडिम्ब उपप्लवे' [इति] देशीकोषात् । एतादृशस्तरणिबिम्ब उदेति ॥ उट्टवणिका यथा॥। ॥ ऽऽ; ८×४=३२ ॥ तुङ्गा निवृत्ता ॥ अथ कमलच्छन्द: पढम गण विप्पओ विहु तह नरेंदओ । गुरुसहित अंतिणा कमल एम भत्तिणा ॥ ७५ ॥ [प्रथमं गणो विप्रो द्वितीयस्तथा नरेन्द्रः । सखि, गुरुसहितोऽन्ते कमलमेवं" प्रथमो विप्रगणश्चतुर्लघ्वात्मको गणः, द्वितीयस्तथा नरेन्द्रो जगणः, तस्यान्ते गुरुः । अनया रीत्या पदेऽष्ट वर्णा भवन्ति तत्कमलनामकं छन्दः । उक्तं च भूषणे - 'द्विजवरगणान्वितं जगणगुरुसंगतम् । फणिनृपतिजल्पितं कमलमिति कल्पितम् ॥' कमलमुदाहरति - जहा (यथा ) - - ............... ] जअइ जणद्दणा असुरकुलमद्दणा । गरुडवरवाहणा वलिभुवणचाहणा ।। ७६ ।। [स जयति जनार्दनोऽसुरकुलमर्दनः । गरुडवरवाहनो बलिभुवनापेक्षक: II] असुरकुलमर्दनो गरुडवरवाहनो बलेः सकाशाद्भुवनापेक्षकः स जनार्दनो जयति सर्वोत्कर्षेण वर्तत इति ॥ उवणिका यथा - || SIS; ८४४= ३२ ॥ कमलं निवृत्तम् ॥ अथ माणवकक्रीडितकं छन्दो ग्रन्थान्तरस्थमुच्यते— भादिगणं कर्णधरं सान्तमिदं वृत्तत्वरम् । पन्नगराजेन कृतं माणवकक्रीडितकम् ॥ यत्र प्रथमं भगणः, ततः कर्णः, ततोऽपि सगणः, तद्वृत्तं माणवकक्रीडितकमिति ॥ यथा कोकवधूशोकहरं पद्मवनीबोधकरम् । गाढतमोनाशकरं नीतितरामुष्णकरम् ॥ उवणिका यथा - SSS IS ८x४= ३२ ।। छन्दोमञ्जर्या तु - 'भात्तलगा माणवकम्।' भाद्भगणात्तलगास्तगणलघुगुरवो यत्र भवन्ति तन्माणवकं छन्द इति गणभेदेनोक्तम् ॥ १. 'अङ्गणा' इति • रवि ० २. 'विजअइ (विजयते ) ' इति रवि ०. •
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy