________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
१२१
पुष्पम् , काशः शरदि जायमानं तार्ण कुसुमम् । ए इति भाषया एते । किंच हारो मुक्तैकावली हीरं वज्रं हंसो मराल एते। अनुक्ताश्च जगति ये ये पारदकैलासहरहासशारदनीरदप्रभृतयः श्वेता वर्णितास्तानशेषानेषा युष्मत्कीर्तिर्जितवती ॥ उवणिका यथाsssssss; ७४४०२८ ॥ यथा वाणीभूषणे-'दृष्टः कृष्णः कालिन्दीतीरे गोगोपानन्दी। वेणुक्काणैरुत्कानां चेतोहर्ता गोपीनाम् ॥' इति ॥ शीर्षा निवृत्ता ॥ अत्र प्रस्तारगत्या सप्ताक्षरस्याष्टाविंशत्यधिकशत(१२८)भेदेषु चत्वारो भेदाः प्रदर्शिताः । ग्रन्थविस्तरभीत्या शेषभेदा नोदाहृताः सुधीभिरूह्यास्त इति ॥ अथाष्टाक्षरप्रस्तारे सर्वगुर्वात्मकमाय(त) विद्युन्मालाछन्दो लक्षयतिविज्जूमाला मत्ता सोला पाए कण्णा चारी लोला । एअरूअं चारी पाआ भत्ती खत्ती विज्जू राआ ॥ ६७ ॥ [विद्युन्माला मात्राः षोडश पादे कर्णाश्चत्वारो लोलाः ।
एवंरूपं चतुर्पु पादेषु भक्त्या क्षत्रियो वित्थ राजा ॥] भोः शिष्याः, यत्र पादे चरणे लोलाश्चञ्चलाश्चत्वारः कर्णा द्विगुरवो गणा भवन्ति गुरुद्विगुणाः षोडशमात्राश्च, तद्विद्युन्मालाछन्दो वेदविश्राममेवंरूपं चतुष्पादं वसुगुरुचरणं भवतीति खत्री क्षत्रियजातिनागराजी भत्ती भक्त्या जल्पतीति वित्थ ॥ अत एवोक्तं कालिदासेन–'सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः। विद्वद्वृन्दैवीणावाणि व्या• ख्याता सा विद्युन्माला ॥' वाणीभूषणेऽप्युक्तम्-'उक्ता यस्यामष्टौ वर्णाः पादे पादे सर्वे दीर्घाः । विश्रामः स्यात्तुर्ये तुर्ये विद्युन्माला निर्दिष्टा सा ॥' इति ॥ विद्युन्मालामुदाहरति-जहा (यथा)
उन्मत्ता जोहा दुकन्ता विप्पक्खामज्झे लुक्खन्ता । णिकन्ता जत्ता धावन्ता णिब्भन्ती कित्ती पावन्ता ॥ ६८॥
[उन्मत्ता योधा मिलिता विपक्षमध्ये निलीयमानाः।
निष्क्रान्ता यान्तो धावन्तो निभ्रान्तां कीर्ति प्राप्ताः ॥] कश्चिद्वन्द्वी संगरं वर्णयति-उन्मत्ता वीररसाविष्टा योधाः सुभटा ढुक्कन्ताः परस्परं मिलिता इत्यर्थः। कीदृशाः । विपक्षाणामहितानां मध्ये लुक्खन्ता निलीयमानाः । एवं निष्क्रान्ताः परबलं व्यापाद्य निर्गता यान्तो निजबलादरातिचक्रं प्रतीत्यर्थः । धावन्त इतस्ततश्चारीसंवरणार्थमित्यर्थः । अत एव नितरां भ्रान्तां त्रैलोक्यभ्रमणशीलां कीर्ति प्राप्ताः कीर्तिशेषा जाता इत्यर्थः ॥ उवणिका यथा-ssssssss; ८४४३२॥ यथा वाणीभूषणे-'आगामिन्यो नो यामिन्यो या या याता भूयो भूयः । अभ्रच्छायावत्तारुण्यं मानेनानेन स्यात्कि ते ॥' ग्रन्थान्तरे तु–'मो मो गो गो विद्युन्माला'। मगणद्वयं गुरुद्वयं च यस्मिंस्तद्विद्युन्मालाच्छन्द इति गणभेदेन लक्षणमभिहितम् । यथा-'वासो वल्ली वि.