________________
१२२
काव्यमाला |
माला बर्हश्रेणी शाश्चापः । यस्मिन्स स्यात्तापोच्छित्यै गोमध्यस्थः कृष्णाम्भोदः ॥' उवणिका यथा— Sss sssss; ८x४ = ३२ ॥ विद्युन्माला निवृत्ता ॥ अथ प्रमाणिकाछन्द:
लहू गुरू णिरन्तरा पमाणि अट्ठअक्खरा । पमाणि
दू किज्जिए णराअ सो भणिज्जए || ६९ ॥ [लघुर्गुरुर्निरन्तरं प्रमाणिकाष्टाक्षरा ।
प्रमाणिका द्विगुणा क्रियतां नराचः स भण्यताम् ॥
-_
यत्र लघुर्गुरुश्च निरन्तरं भवति सा प्रमाणिकाछन्द इत्यर्थः । सा कतिवर्णेत्यपेक्षायामाह — अअक्खरा । अष्टाक्षरेत्यर्थः । सेयं प्रमाणिका चेद्विगुणा क्रियते । षोडशाक्षरपदेत्यर्थः । तदा स नराचो भण्यत इत्युत्तरत्र षोडशाक्षरपदच्छन्दसो लक्षणमपि लक्ष्यतेऽनेनेति ॥ वाणीभूषणेऽपि – 'प्रसून कुण्डल क्रमैरिहाष्टवर्णविभ्रमैः । भुजंगराजवर्णिता प्रमाणिकेति सा मता ॥'
प्रमाणिकामुदाहरति — जहा (यथा ) -
णिसुंभसुंभखंडणी गिरीस गेहमंडिणी ।
पअंडमुंडखंडिआ पसण्ण होउ चंडिआ ॥ ७० ॥ [ निशुम्भशुम्भखण्डिनी गिरीशगेहमण्डिनी । प्रचण्डमुण्डखण्डिका प्रसन्नास्तु चण्डिका ॥]
निशुम्भशुम्भयोर्दैत्ययोः खण्डिनी खण्डयित्री गिरीशस्य रुद्रस्य गेहं मण्डयत्यलंकरोति या सा गेहमण्डन कलत्ररूपेणेत्यर्थः । एवंविधा प्रचण्डानां दैत्यभटानां मुण्डखण्डिका चण्डिका कात्यायनी वः प्रसन्नास्तु | ग्रन्थान्तरे तु 'नगस्वरूपिणी' इति नामान्तरम् ॥ अत एव कालिदासग्रन्थे— 'द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा । तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥' इत्याह ॥ उवणिका यथा - ISISISIS; ८x४ = ३२ ॥ छन्दोमञ्जर्या तु — ' प्रमाणिका जरौ लगौ ।' जगणरगणौ लगौ लघुगुरू च यस्मिंस्तत्प्रमाणिकाछन्द इति गणभेदेन लक्षणमभिहितम् । यथा - 'पुनातु भक्तिरच्युता सदाच्युताङ्गिपद्मयोः । श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥' उद्यवणिका यथा -- ISI SI SIS; ८x४= ३२॥ प्रमाणिका निवृत्ता ॥
अथ मल्लिकाछन्द:
हारगंधबंधुरेण दिट्ठअट्ठअक्खरेण ।
बारहाहि मत्त जाण मल्लिआसुछंदमाण || ७१ ॥
१. 'बंधणेण' इति पाठ ' बन्धनेन' इति व्याख्यातं रविदासेन.