SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२० काव्यमाला। भोः शिष्याः, यत्र चरणे प्रथमं विप्रश्चतुर्लघुको गणः स्थाप्यते, तस्यान्ते जगणो मध्यगुरुको गणस्तां करहंची जानीत ॥ अत एव वाणीभूषणे-'द्विजगणमवेहि जगणमनुदेहि । विविधरंससञ्चि भवति करहश्चि ॥' करहश्चीमुदाहरति-जहा (यथा) जिवउ जइ एह तजउ गइ देह । रमण जइ सो इ विरह ज णु होइ ॥ ६४ ॥ [जीवामि यद्येषाहं त्यजामि गत्वा देहम् । रमणो यदि स एव विहरस्तु न भवतु ॥] काचिदनुगमनपरा सुभटी विधातारमाह-हे धातरित्युपरिष्टात् । एह एषाहं त्यजामि गत्वा देहम् । यदि कदाचिदतःपरमपि जिवउ जीवामि पुनर्जन्मान्तरं लभेयमि(१)त्यर्थः । तदा मम यदि निर्गुणः सगुणो वा स एव रमणो भवतु, विरहस्तु कदापि मा भवत्विति प्रार्थये त्वामिति भावः ॥ उद्दवणिका यथा-ms); ७४४-२८॥ करहंची निवृत्ता ॥ अथ शीर्षरूपकं छन्द: सत्ता दीहा जाणेही कण्णा ती गो माणेही । चाउद्दाहा मत्ताणा सीसारूअं छंदाणा ॥६५॥ [सप्त दीर्घा ज्ञायन्ते कर्णास्त्रयो गमानय । चतुर्दश मात्रा शीर्षरूपं छन्दः ॥] हे मुग्धे, यत्र चरणस्थाः सप्तापि वर्णा दीर्घा गुरवो भवन्तीत्यर्थः । तत्र गणनियममाह-कर्णा गुरुद्वयात्मका गणास्त्रयस्तेषामग्र एकं गं गुरुमानय । एवं पदे सप्त । मात्रानियममाह-चतुर्दश मात्रा द्विगुणार्थमवगन्तव्या । वर्णवृत्ते वर्णानामेव संख्यानियमनादिति । अत एव भूषणे-'उक्ता वर्णाः सप्तास्यां सर्वे दीर्घाः स्युर्यस्याम् । एषा शीर्षा निर्दिष्टा केषां हर्ष नादेष्टा ॥' शीर्षामुदाहरति-जहा (यथा) चन्दा कुन्दा ए कासा हारा हीरा ए हंसा । जे जे सेता वण्णीआ तुम्हा कीत्ती जिण्णी आ॥६६॥ [चन्द्रः कुन्द एते काशो हारो हीर एते हंसः । ये ये श्वेता वर्णिता युष्माकं कीर्तिर्जितवती तान् ॥] कश्चिद्वन्दी कर्णमुपेत्य तत्कीति वर्णयति-हे राजन्, चन्द्रो धवलकरः, कुन्दो माध्य १. 'कोइ विरह जाणि होइ' इति पठित्वा 'रमणो योऽपि सोऽपि भवतु' इति व्याख्यातं रविदासेन.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy