________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
११९ • [कुंजराश्चलन्ति पर्वताः पतन्ति ।
कूर्मपृष्ठं कम्पितं धूल्या सूरश्छादितः ॥] कुंजरा दन्तावलाश्चलन्ति स्म अत एव पर्वताः पतन्ति । यद्वा पर्वतान्प्रेरयन्तो गजाश्वलन्ति स्मेति योजनीयम् । अतश्चादिकूर्मस्यापि पृष्ठं कम्पितं धल्या सूरस्तरणिः समाच्छादितः । इति कस्यचिद्वन्दिनश्चलति कर्णे राजनि वचनम् ॥ उध्वणिका यथाSISISIS; ७४४=२८ ॥ समानिका निवृत्ता ॥ अथ सुवासच्छन्दः
भणउ सुवासउ लहु सुविसेसनु । रचि चतुमत्तह भगणइ अन्तह ॥ ६१ ॥
भण सुवासं लघुसुविशेषम् ।
रचयित्वा चतुर्मात्रकं भगणमन्ते ॥] हे प्रिये, यत्र लघवः सुतरां विशिष्यन्ते । तदेवाह-आदौ चतुर्मात्रकं विरच्य अन्ते भगणमादिगुरुगणं दत्त्वा सुवासनामकं छन्दो भण ॥ तदुक्तं वाणीभूषणे-'द्विजगणमाहर भगणमुपाहर । भणति सुवासकमिति फणिनायक ॥' सुवासकमुदाहरति-जहा (यथा)
गुरुजणभत्तउ बहुगुणजुत्तउ । जसु तिय पुत्तउ स इ पुणमन्तउ ॥ ६२ ॥ [गुरुजनभक्ता बहुगुणयुक्ताः ।
यस्य त्रयः पुत्राः स एव पुण्यवान् ॥] गुरुजनभक्ता बहुगुणयुक्ता यस्य त्रयः पुत्राः स एव पुण्यवान् पुरुषः ॥ उध्वणिका यथा-15); ७४४२८ ॥ यथा च वाणीभूषणे-'गिरिवरनन्दिनि दुरितनिकन्दिनि । विहितनतो मयि कुरु करुणामयि ॥' सुवासको निवृत्तः ॥ अथ करहंची
चरण गण विप्प पढम लइ थप्प । जगण तसु अन्त मुणइ करहंच ॥ ६३ ॥ [चरणे गणो विप्रः प्रथम......."स्थाप्यः ।
जगणस्तस्यान्ते जानीत करहंचीम् ॥] १. 'रइ चउमत्तह भगणह अन्तह' इति पाठं 'आदौ चतुर्मात्रकं विरच्यान्ते भगणः क्रियते' इति रविदासो व्याख्यातवान्. २. 'सुणह' क. 'भणिअ करइंच' इति पठित्वा 'करहंचो भण्यते' इति व्याख्यातं रविदासेन.