________________
काव्यमाला। द्विजवरः क्रियते भण्यते सुप्रियः । ।
दमनकं गुणी फणिपतिर्भणति ॥] यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः क्रियते पश्चात्सुप्रियो लघुद्वयात्मको गणो भण्यते । नगणद्वयेन [दमनकं छन्दः] इति फलितोऽर्थः । तद्दमनकं छन्द इति गुणी फणिपतिर्भणति ॥ वाणीभूषणे तु–'द्विगुणनगणमिह वितनुहि । दमनकमिति [प्रति]गदति हि ॥' दमनकमुदाहरति-जहा (यथा)
कमलणयणि अमिअवअणि । तरुणि घरणि मिलइ जे पुणि ॥ ५८ ॥
कमलनयना अमृतवचना।
तरुणी गृहिणी मिलति यदि पुनः ॥] कमलनयना अमृतवचना तरुणी गृहिणी यदि पुनर्मिलति तदा तां विहाय न कुत्रापि गमिष्यामीति कस्यचिद्विदेशस्थस्य कामिनो मित्रं प्रति वचनम् ॥ उध्वणिका यथा॥॥॥; ६x४-२४ ॥ दमनकं निवृत्तम् ॥अत्र प्रस्तारगत्या षडक्षरस्य चतुःषष्टिभैदा भवन्ति। तेष्वाद्यन्तभेदसहिता अष्टौ भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनीयाः । ग्रन्थविस्तरशया नात्रोक्ता इति ॥ अथ सप्ताक्षरप्रस्तारे समानिकाछन्दः
चारि हार किज्जही तिण्णि गन्ध दिज्जही । सत्त अक्खरा ठिआ सा समाणिआ पिआ॥ ५९॥ [चत्वारो हाराः क्रियन्ते त्रयो गन्धा दीयन्ते ।
सप्ताक्षरा स्थिता सा समानिका प्रिये ॥] हे प्रिये, सा समानिकाछन्द इत्यर्थः । यत्र पदे चत्वारो हारा गुरवः क्रियन्ते । अन्त. रान्तरा च त्रयो गन्धा लघवः क्रियन्ते । एवं सप्ताक्षराणि यस्यां गुरुलघुरूपेण स्थितानि सा समानिकेत्यनुषज्यते ॥ तथा च वाणीभूषणे-'हारमेरुगा यदा रज्जुगा भवेत्सदा । सप्त" वर्णसंगता सा समानिका मता ॥' समानिकामुदाहरति-जहा (यथा)
कुंजरा चलंतआ पवला पलंतआ ।
कुम्मपिठ्ठि कंपए धूलि सूर झंपए ॥ ६०॥ 1. वाणीभूषणादर्शानुसारेण लिखितम्. २. 'सुपुण' इति 'सुपुण्यैः' इत्यर्थकं रविदासपुस्तके.