________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । शङ्खनारीमुदाहरति-जहा (यथा)
गुणा जस्स सुद्धा वहू रूअमुद्धा । घरे वित्त जग्गा मही तस्स सग्गा ॥ ५४॥ [गुणा यस्य शुद्धा वधू रूपमुग्धा ।
गृहे वित्तं जाग्रन्मही तस्य स्वर्गः ॥] यस्य गुणाः शुद्धाः, यस्य वधू रूपेण मुग्धा सुन्दरी, यस्य गृहे वित्तं जाप्रदस्ति तस्य मही पृथ्वी स्वर्गः ॥ उध्वणिका यथा-Ississ; ६x४-२४ ॥ शङ्खनारी निवृत्ता॥ अथ मालतीछन्दः
धों सरवीअ मणीगुण तीय । दई लहु अन्त स मालइ कन्त ॥ ५५ ॥ [ध्वजः शरद्वयं मणिगुणस्ततः।
देयो लघुरन्ते सा मालती कान्ते ॥] .. हे कान्ते, यत्र प्रथमं ध्वजो लघ्वादिनिकलः, ततः शरद्वयं लघुद्वयम्, ततश्च मणिगुणो हारो गुरुरित्यर्थः । ततोऽन्ते एको लघुर्देयः । सा मालती मालतीनामकं छन्दो भवतीति जानीहीति जगणद्वयेन मालती छन्द इति फलितोऽर्थः ॥ तथा च वाणीभूषणेऽपि-'यदा जगणद्वि भवेदमलघु । फणी वितनोति स मालतिकेति ॥' मालतीमुदाहरति-जहा (यथा)
करा पसरंत बहूगुणवन्त | . पफुल्लिअ कुन्द उगो सहि चन्द ॥५६॥ [कराः प्रसृताः बहुगुणवन्तः ।।
प्रफुल्लिताः कुन्दा उदितः सखि चन्द्रः ॥] हे सखि, बहुगुणवन्तः प्रसादाद्यनेकगुणयुक्ताः किरणाः प्रसृताः, प्रफुल्लिताः कुन्दाः, उदितश्चन्द्र इति कस्याश्चिन्नायिकायाः सखी प्रति वचः॥ उद्दवणिका यथा-usi; ६४ ४-२४ ॥ मालती निवृत्ता ॥ अथ दमनकच्छन्दः
दिअवर किअ भणहि सुपिअ | दमणअ गुणि फणिवइ भणि ॥ ५७ ॥ .
१. 'वित्तजुग्गा' इति पठित्वा 'गृहं वित्तयुक्तं' इति व्याख्यातं रविदासेन.