________________
काव्यमाला।
[भुवनानन्दस्त्रिभवनकन्दः।
.. ... भ्रमरसवर्णः स जयति कृष्णः ॥] भुवनानन्दस्त्रिभुवनकन्दो भ्रमरसवर्णो जयति कृष्णः ॥ उद्दवणिका यथा-mss; ६४४२४ ॥ चतुरंसा निवृत्ता॥ अथ मन्थाणच्छन्दः
कामावआरेण अद्धेण पाएण। मत्ता दहा सुद्ध मन्याण सो मुद्ध ॥५१॥
[कामावतारस्यार्धेन पादेन ।
_मात्रा दश शुद्धा मन्थानं तन्मुग्धे ॥] हे मुग्धे, यत्र कामावतारार्धेन पादेन मात्रा दशः शुद्धाः प्रतिपादमत्र भवन्ति । तन्मन्थाननामकं छन्दः ॥ अयमर्थः-अग्रे वक्ष्यमाणस्य विंशतिकलात्मनः कामावतारस्य छन्दसोऽर्धेन दशमात्रात्मकेन षडक्षरेण पादेन मन्थाननाम छन्दो भवति ॥ तत्र गणनियम उच्यते-'पूर्व तगणोऽनन्तरमपि स एवं' इति ॥ वाणीभूषणे तु–'कर्णध्वजानन्दमाधाय सानन्द । वर्णे रसैर्यत्तु मन्थानमेतत्तु ॥' मन्थानमुदाहरति-जहा (यथा)
राआ जहा लुद्ध पंडीअ हो मुद्ध । कित्ती करे रक्ख सो वाद उप्पेक्ख ॥५२॥ [राजा यत्र लुब्धः पण्डितोऽस्ति मुग्धः ।
कीर्ति करे रक्ष स वाद उपेक्ष्यः ॥] हे सज्जन, राजा यत्र लुब्धः पण्डितोऽपि मुग्धः । तत्र राजकुले त्वं स्वकीर्ति करे रक्ष । स्वविद्याप्रकाशं मा कुर्वित्यर्थः । स वादोऽप्युपेक्ष्यताम् । यत्र न ज्ञाता कश्चिदिति भावः। उद्ववणिका यथा- ssss; ६x४२४ ॥ मन्थानं निवृत्तम् ॥ अथ शङ्खनारीछन्दः
खडावण्णबद्धो भुअङ्गापअद्धो। पआ पाअ चारी कही संखणारी ॥५३॥ [षड्वर्णबद्धो भुजङ्गपदार्थः।
..........."कथिता शङ्खनारी ॥] यत्र षड्वर्णाः पदे भवन्ति भुजङ्गप्रयातस्याग्रे वक्ष्यमाणस्य यगणचतुष्टयात्मकस्य च्छन्दसोऽर्धेन यद्वयनैतस्य चरणो भवति पादे पादे यगणद्वयं भवति तच्छङ्खनारीछन्दः ॥ वाणीभषणे तु-ध्वजानन्दकर्णाः षडेवात्र वर्णाः । बुधानन्दकारी भवेच्छङ्खनारी ॥'