________________
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् |
११५
यममाह - विणि द्वौ जोहागणौ रगणौ यत्र तत् विज्जोहाछन्दः नामगणयोरैक्यम् ॥ वाणीभूषणे तु 'विमोहा' इति नामान्तरम् - 'यत्र पादद्वये दृश्यते रद्वयम् । नागराजोदिता सा विमोहा मता ॥'
विमोहामुदाहरति-
कंससंहारणा पक्खि संचारणा ।
देवईडिम्भआ देउ मे णिम्भआ || ४७ ||
[कंससंहारी पक्षिसंचारी ।
देवकी डिम्भो ददातु मे निर्भयम् ॥]
कंससंहारी पक्षिसंचारी देवकीनन्दनो मे मह्यं निर्भयं ददातु। ममाभयप्रदो भवत्वित्यर्थः ॥ sarat er — SISSIS; ६x४ = २४ ॥ विजोहा निवृत्ता ||
अथ चतुरंसाच्छन्द:
ठउ चउरंसा फणिवइभासा | दिअवरकण्णो फुल रसवण्णो ॥ ४८ ॥ [स्थापय चतुरंसां फणिपतिभाषिताम् । द्विजवरकर्णी स्फुटं रसवर्णाम् ||]
यत्र द्विजवरश्चतुर्लघ्वात्मको गणः प्रथमम्, ततः कर्णो द्विगुरुर्गणः, अत एव स्फुटं रसवर्ण षडक्षरं पदं यत्र तां फणिपतिभाषितां चतुरंसां स्थापय ॥ वाणीभूषणेऽपि - 'द्विजवरकर्णाविह रसवर्णा । भवति यदा सा किल चतुरंसा ॥
चतुरंसामुदाहरति — जहा (यथा ) -
गउरिअकन्ता अभिनउ सन्ता |
जदि परसन्ना दिअमहि धन्ना || ४९ ॥ [गौरीकान्तोऽभिनये सन् ।
यदि प्रसन्नो द्यावापृथिव्योर्धन्यः ॥]
गौरीकान्तो यदि यदा अभिनये संस्ताण्डवे वर्तमानो यस्य प्रसन्नः, स तदा द्यावापृथिव्योर्धन्यः ॥
जहा वा ( यथा वा ) -
भुअणअणन्दो तिहुअणकन्दो |
भमरसवण्णो स जअइ कण्हो ॥ ५० ॥
१. रविदासेन तु पूर्वोदाहरणं न दत्तम् अत्रापि 'णअणअणन्दो तिहुअणचन्दो' इति पठितम्.