________________
११४
काव्यमाला |
[ युध्यमानोदामे कालिका संग्रामे । नृत्यन्ती संहरतु दुरितमस्माकम् ॥]
उद्दामे संग्रामे [युध्यमाना] नृत्यन्ती कालिका हम्मारो अस्माकं दुरितं तापं संहरतु ॥ उट्टवणिका यथा—ssssss; ६x४ = २४ ।। शेषा निवृत्ता ॥
अथ तिलकाछन्द:
पिr तिल्ल धुअं सगणेण जुअम् ।
छअ वण्ण पओ कल अट्ठ ओ ॥ ४४ ॥
[प्रिये तिलका ध्रुवं सगणस्य युगम् । षडुर्णाः पदे कला अष्टौ धृताः ॥]
हे प्रिये, तत्तिकाख्यं छन्दः । यत्र ध्रुवं निश्चितं सगणद्वयमन्त्यगुरुगणद्वयं भवति । षडुर्णात्मकं पदम् । पदे चाष्टौ कला धृता यत्रेति कलासंख्या शिष्यबोधनार्थ पदपूरणार्थे वा । अन्यथाक्षरवृत्ते वर्णसंख्याया एवावश्यकत्वादिति ॥ वाणीभूषणेऽपि - 'सखि सद्वितयं सुदतीह यदा । रसवर्णपदा तिलकेति तदा ॥' तिलकामुदाहरति- जहा (यथा ) -
पिअभत्ति पिआ गुणवन्त सुआ ।
धैणमन्त घरा बहुसुक्खकरा ॥ ४५ ॥
[प्रियभक्ता प्रिया गुणवान्सुतः । धनवगृहं बहुसुखकरम् ||]
कश्चित्स्वमित्रं प्रत्याह – प्रियभक्ता प्रिया, गुणवान् सुतः, धनवगृहं बहुसुखकरमित्येतसर्व यस्य भवति स धन्य इति भावः ॥ उवणिका यथा - ||; ६४४ =२४ ॥ ति• लका निवृत्ता ||
अथ विज्जोहाछन्द:
अक्खरा जे छआ पाअ पाअ ट्ठिआ ।
मत्त पञ्च हुणा विणि जोहागणा ॥ ४६ ॥
[अक्षराणि यत्र षट् पादे पादे स्थितानि । मात्रा पञ्च द्विगुणा द्वौ जोहागणी ॥]
यत्र पादे पादे षडक्षराणि स्थितानि । यत्र च पञ्च द्विगुणा दश मात्रा: । तत्रैव गणनि -
१. 'डिल' इति पठित्वा 'डिल्लानाम छन्द:' इति व्याख्यातं रविदासेन. २. 'ठिओ'
इति पदं 'स्थिताः' इति व्याख्यातं रविदासेन. ३. 'धणजुत्त' इति रविदासपुस्तके.