________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
हे मुग्धे, यत्र सुप्रियगणो द्विलघुक एव गणो भवति । अथ च शरेणैकेन लघुना सुगुणं संयुक्तं एतादृशं [न]गणं सरहश्लाघ्यमेतस्य गणस्य कुर्वित्यर्थः । एतादृशं सर्वलघ्वा. त्मकपश्चाक्षरप्रस्तारान्त्यभेदं पञ्चाक्षरपदं यमकाख्यं छन्दो भण पठेत्यर्थः । वाणीभूषणेऽप्युक्तम्-'नगणमनु द्विलघु कुरु । फलितमिति यमकमिति ॥' यमकमुदाहरति-जहा (यथा)
पवण वह सरिरसह। मअण हण तवइ मण ।। ४१ ॥ [पवनो वहति शरीरसहः ।
मदनो हन्ति तापयति मनः ॥] पवनो मलयानिलो वहति । कीदृशः । शरीरसहः शरीरं साहयत्यसौ सहः । 'षहस् गतौ' इत्यस्य दिवाद्यस्य (?) रूपम् । यद्वा तादृशं पवनं शरीरं कर्ट सहते । 'साहयत्याहवक्षोभं सहति द्रविणव्ययम् । अन्यायं सहते नासौ सिध्यति क्षितिरक्षणः ॥' इति कविरहस्ये हलायुधवचनप्रामाण्यादिति । अपि च मदनो हन्ति तापयति च मनः । इति प्रो. षितपतिकावचनं सखी: प्रतीति व्याख्येयमिति ॥ उध्वणिका यथा-m, ५४४२०॥ यमकं निवृत्तम् ॥ अत्र प्रस्तारगत्या पञ्चाक्षरस्य द्वात्रिंशद्भेदा भवन्ति । तेषु भेदेषु चतुष्टयमुक्तम् । शेषभेदा नोदाहृता ग्रन्थविस्तरभीत्या, सुधीभिस्तूह्या इति ॥ अथ षडक्षरप्रस्तारे सर्वगुरुरूपमाद्यं भेदं शेषाख्यं छन्दो लक्षयति
बाराहा मत्ता जं कण्णा तीआ होतम् । हारा छका बन्धो सेसा राआ छन्दो ॥ ४२ ॥ [द्वादश मात्रा यत्र कर्णास्त्रयो भवन्ति ।
हारैः षड्भिर्बन्धो शेषो राजा छन्दः ॥] यत्र द्वादश मात्राः । शिष्यबोधनार्थ मात्रासंख्या ॥ गणनियममाह-यत्र च त्रयः कर्णा गुरुद्वयात्मकास्त्रयो गणा भवन्ति। षडक्षरं पदम् । एतदेव द्रढयति-षड्भिर्हारैर्गुरुभिबन्धो यत्र तच्छेषाख्यं छन्दःसु राजा । श्रेष्ठं छन्द इत्यर्थः ॥ तदुक्तं वाणीभूषणेऽपि'एषा वर्णैः षद्भिः प्रोक्ता छन्दोविद्भिः । सर्वे वर्णा यस्यां दीर्घा शेषा सा स्यात् ॥' शेषामुदाहरति-जहा (यथा)
जुझन्ती उद्दामे कालिका संगामे ।
णचन्ती संहारो दूरित्ता हम्मारो ॥ ४३.॥ १. 'सेसाराजा' इति 'शेषराजश्छन्दः' इति व्याख्यातं रविदासेन.
१५