________________
११२
काव्यमाला ।
[या भर्तृभक्ता धर्मैकचित्ता | सा भवति नारी धन्या प्रिया ॥]
या भक्ता धर्मैकचित्ता भवति सैव नारी धन्या प्रिया च भर्तुर्भवतीति भावः ॥ उवणिका यथा -- SSISS; ५x४ = २० ॥ हारी निवृत्ता ॥
अथ हंसच्छन्द:
पिङ्गलदिट्ठो भ इ सिट्ठो ।
कण्णइ दिज्जो हंस मुनिज्जो ॥ ३८ ॥ [पिङ्गलदृष्टं भं दत्त्वा सृष्टम् । कर्णं दत्त्वा हंसं ज्ञातव्यम् ॥]
,
भोः शिष्याः पिङ्गलेन दृष्टं भगणं दत्त्वा पूर्व सृष्टम् पश्चात्कर्ण गुरुद्वयात्मकगणं दत्त्वा हंसाख्यं पञ्चाक्षरपदं छन्दो भवतीति ज्ञातव्यम् ।। अत एव वाणीभूषणे - 'पिङ्गलदिष्टो भादिविशिष्टः । कर्णयुतोऽसौ भामिनि हंसः ॥'
हंसमुदाहरति- जहा (यथा ) -
सो महकता दूर दिगन्ता । पाउस आवे चेउ डुलावे ॥ ३९ ॥ [ स मम कान्तो दूरे दिगन्ते । प्रावृडागता चेतश्चालयति ॥ ]
काचित्प्रोषितपतिका सखीमाह - हे सखि, स मम कान्तोऽधुना दूरे दिगन्ते वर्तते । इयं च प्रावृट् आगता चेतश्चालयति । किमिदानीमाचरणीयमिति शिक्षयेति भावः ॥ उणिका यथा – SIISS; ५x४ = २० ॥ हंसो निवृत्तः ॥
-
अथ यमकच्छन्दः
-
सुपिअगण सरसुगुण |
सरह गण जमअ भण ॥ ४० ॥ [सुप्रियगणो शरसुगुणम् । श्लाघ्यमे........यमकं भण || ]
१. रविदासेन तु 'सरस मण। सर ह गण जमअ गुण' इति पठित्वा 'तद्यमकं जानीत । यत्र सुप्रियो द्विलघुर्गणः । कीदृशः । सरसो रससंपूर्णः इति बुध्यस्व ॥ ततः शरस्त्रिलघुर्गणः संभवति' इति व्याख्यातम्.