________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ पञ्चाक्षरप्रस्तारे सर्वगुरुः संमोहाछन्दः
संमोहारूअं दिट्ठो सो भूअम् । बे कण्णा हारा भूअत्ता(ना)सारा ॥ ३४ ॥ ... [संमोहारूपं दृष्टं तद्भूमौ ।
द्वौ कर्णौ हारो भूतलसारम् ॥] यत्र बे द्वौ कौँ गुरुद्वयात्मकगणौ पूर्व भवतः । तत एको हारो गुरुः । एवमेकस्मिश्चरणे पश्चापि गुरवो भवन्ति तत् भूतलसारं संमोहानामकं छन्द इत्यर्थः । तथा च वाणीभूषणे-'द्वौ कर्णौ हारः संमोहा सारः । वर्णाः पश्चैवं नागाधीशोक्तम् ॥' संमोहामुदाहरति-जहा (यथा)
उद्दण्डा चण्डी दरित्ता खण्डी। तेल्लोआ सोक्खं देऊ मे मोक्खम् ॥ ३५ ॥ [उद्दण्डा चण्डी दुरितं खण्डयतु ।
त्रैलोक्यस्य सौख्यं ददातु मे मोक्षम् ॥] उद्दण्डा महिषासुरादिवधेनोद्भटा चण्डी कात्यायनी दुरितं खण्डयतु, (त्रैलोक्यस्य सुखम् ,) मे मोक्षं च ददातु' इति कश्चिद्भक्तो देवी प्रार्थयते इति ॥ उद्दवणिका यथा-sssss; ५-२० ॥ संमोहा निवृत्ता ॥ अथ हारीछन्दः
आईहि अन्ते हारे सुजुत्ते । मज्झेकगन्धो हारी अछन्दो ॥ ३६॥ [आदावन्ते हाराभ्यां सुयुक्तम् । .
मध्यैकगन्धां हारी तच्छन्दः ॥] ___ आदौ हाराभ्यां गुरुभ्यां तथा चान्ते हाराभ्यां संयुक्तम्, तयोर्मध्ये गन्धो लघुरेको यत्र तत् हारी छन्दः । पञ्चाक्षरपदम् । आदावन्ते कर्णो, मध्ये लघुः, एवं पञ्चवर्णात्मकं पदमि. त्यर्थः ॥ वाणीभूषणेऽपि—'आद्यन्तकर्णाः पञ्चैव वर्णाः । लघ्वेकधारी वाच्यः स हारी॥' हारीमुदाहरति-जहा (यथा)
जा भत्तिभत्ता धम्मेकचित्ता।
सा होइ णारी धण्णा पिआरी ॥ ३७॥ १. 'हारीअबन्धो' इति मूले पठित्वा 'हारीतबन्धः' इति व्याख्यातं रविदासेन.२. 'जुत्ता' इति पठित्वा 'भक्तियुक्ता' इति व्याख्यातं रविदासेन.