________________
काव्यमाला |
[वर्णाश्चत्वारो मुग्धे घारिः ।
॥]
हे मुग्धे यत्र वर्णाश्चत्वारः पदे भवन्ति ता घारी । तस्यामुत्तरोत्तरो हारौ गुरुद्वयम्, द्वौ शरौ लघुद्वयं च ॥ अयमर्थः - चतुर्वर्णात्मकपदे घारीनाम्नि च्छन्दसि प्रथमं गुरुः, ततो लघुः, अनन्तरं गुरुलघू । इत्युक्तं भवति - रगणः, ततश्चैको लघुः - इति ॥ त दुक्तं वाणीभूषणे - 'यत्तु पक्षि दण्ड लक्षि | वेद वर्णे धारि धारि ॥' इति ॥ घारीमुदाहरति - जहा ( यथा) -
देउदेउ संभु देउ |
जासु सीस चन्द दीस ॥ ३१ ॥ [देवदेवः शंभुर्ददातु ।
यस्य शीर्षे चन्द्रो दृश्यते ॥]
.११.०
.........
............
देवानामपि देवः स शंभुर्युष्मभ्यं शुभं ददातु । यस्य शीर्षे चन्द्रो दृश्यते । चन्द्रशेखर इत्यर्थः । उवणिका यथा - SISI ; ४४४ = १६ ॥ घारी निवृत्ता ॥
अथ नगाणी छन्द:
पओहरो गुरुत्तरो |
• नगाणि स जाणि ॥ ३२ ॥ [ पयोधरो गुरूत्तरः | नगाणिका सा ज्ञायते ॥]
यत्र पयोधरौं जगणो गुरुमध्यमो गणो गुरूत्तरो गुर्वन्तो भवतीत्यर्थः । वर्णचतुष्टया - त्मकं पदम् । तन्नगाणी छन्दो भवति । अर्थात् — द्वितीयश्चतुर्थश्च वर्णो गुरुर्भवतीति ॥ तदुक्तं वाणीभूषणे - 'द्वितुर्थके गुरुर्यदा । नगाणिका भवेत्तदा ॥ '
नगाणी मुदाहरति - जहा (यथा ) -
सरस पण हो ।
कवित्तआ फुरत्तओ ॥ ३३॥
[ सरस्वती प्रसन्नास्तु | कवित्वं स्फुरतु ॥]
सरस्वती प्रसन्ना भवतु, कवित्वं स्फुरतु ॥ उवणिका यथा – Isis; १६ ॥ नगाणी निवृत्ता । अत्रापि चतुरक्षरस्य प्रस्तारगत्या षोडश भेदा भवन्ति । तेषु ग्रन्थविस्तरशया त्रयो भेदाः प्रदर्शिताः ॥ अन्यैः (न्ये) सुधीभिरूहनीयाः इति ॥
१. 'सुम्भ' इति पठित्वा 'शुभं' इति व्याख्यातं रविदासेन.