________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
कमलमुदाहरति-- जहा (यथा ) -
रंमण गमण ।
कमण कमण || २७ ॥
[रमण गमनम् ।
॥]
............
हे रमण, कुत्र गमनं क्रियत इति शेषः । उवणिका यथा - ||; १२ ॥ कमलं निवृत्तम् ॥ अत्रापि त्र्यक्षरप्रस्तारगत्याष्टौ भेदा भवन्तीति तावन्तोऽप्युदाहृत्य प्रदर्शिताः ॥ अथ चतुरक्षरे प्रस्तारे प्रथमं तीर्णा छन्द:
चारी हारा ईट्ठा कारा ।
वीए कण्णा जाणे तिण्णा ॥ २८ ॥
[ चत्वारो हारा इष्टा: कराः ।
द्वौ कर्णौ जानीत तीर्णाम् ||]
भोः शिष्य, यत्र चत्वारो हारा गुरवो भवन्ति, इष्टा: ( ? ) करा: । तत्र चरणे गणनिय - ममाह—एकस्मिन्पादे द्वौ कर्णौ गुरुद्वयात्मकगणौ भवतः, तत्तीर्णाख्यं छन्दः । वर्णचतुष्टयात्मकं पदम् ॥ वाणीभूषणेऽप्युक्तम् —' यस्मिन् कर्णः कर्णः । वेदैर्वर्णैः सा
स्यात्तीर्णा ॥'
तीर्णा मुदाहरति - जहा (यथा) -
१०९
जाआ माओ धुत्ता पुत्ता । इणे जाणी किज्जे जुत्ता ॥ २९ ॥ [ जाया माया पुत्रा धूर्ता: ।
एवं ज्ञात्वा क्रियतां युक्तम् ॥]
कश्चिन्मित्रं प्रति वदति – जाया वधूर्माया महावश्चिकेत्यर्थः । पुत्रा अपि धूर्ताः । एवं ज्ञात्वा क्रियतां युक्तम् - इति ॥ उवणिका यथा - ssss; ॥ तीर्णोत्तीर्णा ॥
अथ घारीच्छन्द:
वण्ण चारि मुद्धि घारि ।
विणि हार दो स सार ॥ ३० ॥
१. 'रमणस्य गमने विदेशगमने कस्या मनः अपि तु न कस्या अपीत्यर्थः' इति रविदास - व्याख्यादर्शनेन 'रमणगमने । कस्या मनः' इति छाया प्रतीयते. २. 'अट्ठा कारा' इति मूलमाश्रित्य 'अष्टौ कला:' इति व्याख्यातं रविदासेन. ३. ' तस्या अन्तरा द्वौ भवतः । दोषं मारयित्वा' इति रविदासव्याख्यानुकूला तु 'द्वावन्तहरौ दोषं मारयित्वा ' इति च्छाया प्रतीयते.