________________
२ परिच्छेदः ]
•
प्राकृतपिङ्गलसूत्रम् ।
[ सारुरेप: । गुरुर्द्वितीयो रेखा ||]
यत्र पूर्वो गुरुः, द्वितीयो रेखा लघुः, तत्सारुनामकं छन्दः ॥ सारुमुदाहरति- जहा (यथा ) - संभु एउ | सुब्भ देउ ॥ ११ ॥
[शंभुरयम् ।
शुभं ददातु ॥]
अयं शंभुयुष्मभ्यं सुखं ददातु || उट्टवणिका यथा - SI, ८ ॥ अत्र चत्वारो भेदा उदाहृताः ॥
अथ त्र्यक्षरप्रस्तारे तालीछन्द:-.
f
ताली ए जाणीए ।
गो कण्णो तिब्बणो ॥ १२ ॥ [ताल्येषा ज्ञायते । गुरुःकर्णो त्रिवर्णः ॥]
यत्र पूर्व गो गुरुः, अनन्तरं कर्णो गुरुद्वयात्मकः । सर्वगुरुः (त्रिवर्णः ) सा ताली नामकछन्दः ॥ भूषणेऽपि — 'ताली सा निर्दिष्टा ।मो यत्र ॥ ग्रन्थान्तरे नारीति ॥ तामुदाहरति- जहा (यथा) -
तुह्माण अह्माण |
चण्डेसो रक्खे सो ॥ १३ ॥
[युष्मानस्मान् ।
चण्डेशो रक्षतु सः ॥]
स प्रसिद्धचण्डेशः शिवो युष्मानस्मान्रक्षतु ॥ उद्यवणिका यथा - sss. १२॥ अथ प्रियाछन्द:
१०५
fre dear |
अक्खरे तिणि रे ॥ १४ ॥ [हे प्रिये लक्ष्यते । अक्षराणि त्रीणि रे ॥]
१. 'अक्षरैस्त्रिभिः' इति व्याख्यातं रविदासेन.
१४