________________
१०२
काव्यमाला ।
[गाहू गाथा विगाथोद्गाथा गाथिनी सिंहिनी स्कन्धकं द्विपथा रसिका रोला गन्धानकं चतुष्पदी घत्ता घत्तानन्दं षट्पदी पज्झटिका अडिला पादाकुलकं चतुष्पदी नवपदी पद्मावती कुण्डलिका गगनाङ्गनं द्विपदी झुल्लुणा खञ्जा शिखा माला चुलिआला सोराष्ट्रा हाकलि मधुभार आभीरं दण्डकला दीपक-सिंहावलोक- प्लवंगम लीलावती हरिगीता त्रिभङ्गी दुर्मिला हीरकं जनहरणं मदनगृहं मरट्ठा । एतानि पञ्चचत्वारिंशत्स्थानकानि ॥] एतानि पञ्चचत्वारिंशत्स्थानकानि । अन्यान्यपि प्रस्तारगत्या सुधीभिरुह्यानि ॥ शिवम् ॥ पिङ्गला[चा]र्यविरचितमात्रावृत्तप्रकाशकम् । छन्दःप्रदीपममलं जगद्भवनदीपकम् ॥ मुनीषुरसभूमीभिर्मितेऽब्दे श्रावणे सिते । नागराज तिथौ भट्टलक्ष्मीनाथोऽप्यरचत् ॥
इत्यालंकारिकचक्रचूडामणिश्रीमद्राय भट्टात्मजश्रीलक्ष्मीनाथ भट्टविरचिते पिङ्गलप्रदीपे मात्रावृत्ताख्यः प्रथमः परिच्छेदः ॥
द्वितीयः परिच्छेदः । मदजलपरिमलपरिमिंलदलिकलकलकपटकलितकमलवन । जय जय निजपदसर सिजनमदभिमतघटनजवन गजवदन ॥ कृत्वा कौतूहलतो मात्रावृत्तस्य पिङ्गले भाष्यम् । लक्ष्मीनाथस्तनुते सद्भाष्यं वर्णवृत्तस्य ॥
अथैकाक्षरपादादारभ्यैकैकाक्षरवर्धितैः पादैः षडूिंशत्यक्षरपर्यन्तं वर्णवृत्तान्युच्यन्ते । इतश्च लक्ष्यलक्षणयोरैक्यमवगन्तव्यम् ॥
श्री सा ।
जंगो ॥ १ ॥
[श्रीः सा ।
यत्र गुरुः ॥]
सा श्रीः । श्रीनामकं छन्द इत्यर्थः । यत्र गो गुरुर्भवतीत्यर्थः ॥ अत्र सर्वत्र - 'गुरुरेको गकारो लघुरेको लकारः' इति संकेत: ॥ भूषणेऽप्युक्तम् — 'यद्गः सा श्रीः ॥ '
१. भूषणे तु 'उपगीति:' इत्यस्य नामान्तरमुक्तम्. २. रविदासेन तु – 'चउबोला, झुलणा' इति द्वे अनुक्त्वा 'तेआलिस हरा' इति मूलं पठित्वा 'इति त्रयश्चत्वारिंशच्छन्दांसि भवन्ति' इति व्याख्यातम्.