________________
१००
काव्यमाला ।
येन कंसो विनाशितः, अत एव कीर्तिः प्रकाशिता । येन मुष्टिकारिष्टयोर्विनाशः कृतः । येन च गोवर्धनो गिरिर्हस्तेन धृतः । येन च यमलार्जुनौ भग्नौ । येन च पदभरेण गञ्जितं [कालिय] कुलम् । येन च यशसा भुवनं भृतम् । येन चाणूरोऽपि विखण्डितः । येन च निजकुलं यादववृन्दं मण्डितम् । येन च राधामुख [ मधु]पानं कृतं यथा भ्रमरवरेण सरसिजमकरन्दः पीयते । स नारायणो विप्रपरायणो युष्माकं चित्तचिन्तितं ददातु । कीदृशः । भवभीतिहरः संसारभयनाशनः ॥ उद्यवणिका यथा ॥ ISII, SII, SII, SII, SII, SII, Sil, sil, SII, S, (४०) ॥, ॥, ॥ III, SII, SS, II, III, SII, III, (४०) s, sll, sil, II, SII, SS, IIII, SII, IIII, S (४०); S, SII, SII, SII, SII, SII, Sll, sil, SII, SII, S, (४०) ।। प्रन्थान्तरेऽपि - 'विरहानलतप्ता सीदति गुप्ता रचितनलिनदलतल्पतले मरकतविमले करकलितकपोलं गलितनिचोलं नयति सततरुदितेन निशामनिमेषदृशा । न सखीमभिनन्दति रुजमनुविन्दति निन्दति हिमकरकरनिकरं परितापकरं मनुते हृदि भारं मुक्ताहारं दिवसनिशाकरदीनमुखी जीवितविमुखी ॥'
अथ मरहा छन्द:
एहु छन्द सुलक्खण भणइ विअक्खण जम्पर पिङ्गलणाअ
बिसम दह अक्खर पुण अठ अक्खर पुण एग्गारहठाउ । गण आइहि छक्क पञ्च चउकलु अन्त गुरु लहु देहू
सउ सोलह अगाल मत्त सगाल भणु मरहट्टा एहु ॥ १५६ ॥ [ एतच्छन्दः सुलक्षणं भण्यते विचक्षणो जल्पति पिङ्गलनागः
विश्राम्यति दशस्वक्षरेषु पुनरष्टसु पुनरेकादशस्थाने । गण आदौ षट्कलः पञ्च चतुष्कलाः अन्ते गुरुं लघु देहि
शतं षोडशाधिकं मात्राः सकलाः भण मरहट्ठामेतत् ||]
सुलक्षणमेतच्छन्दो भण्यते यद्विचक्षणः पिङ्गलनागो जल्पति यद्विश्राम्यति पूर्वे दशाक्षरेषु पुनरष्टसु पुनरेकादशस्थाने । अत्राक्षर शब्दो मात्रावाचकः, तद्वृत्तत्वात् ॥ [ उद्यवणिकाप्रकारमाह-] आदौ षट्कल एकः, ततः पञ्च चतुष्कलाः, तत एको गुरुः, ततो 'लघुरेक इति प्रकारेण पादे एकोनत्रिंशत्कला दत्थ । खण्डचतुष्टयपिण्डकलासंख्या षोडशाधिकशतकं (११६) मात्रा यत्र तदेतन्मरहट्टानामकं छन्दो भण || भूषणेऽपि - 'आदौ कुरु षट्कलमत्र चतुष्कलपञ्चानन्दमितोऽपि दशवस्वेकादश भवति विरतिवशमधिकशुचार्मपलोपि । विंशतिनवसंख्यं कैविकुलसंख्यं वन्दितगुणिगणकोटि मरहट्ठावृत्तं किल जयकृये (ते) - कृत रिपुविनतकरोटि ॥
१. 'मवलोपि' इति भूषणपुस्तकपाठः २. 'भणितसुमुख्यं' भूषण पुस्तकपाठः,