________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
९९
द्वे मात्रे शिरसि आदौ स्थापयित्वा अन्ते पदान्ते वलयं गुरुं स्थापयन्तु । ततो मात्राद्वयगुर्वोर्मध्ये नव चतुष्कलगणान्धृत्वा मदनगृहं नाम छन्दः कुरुत ॥
किं च
चउसंधि हि चालीसकल दह गण तत्थ मुणेहु | अहर वज्जिअ हे सुपिअ मअणहराई कुणेहु ।। १५५ ।। [चतुःसंधौ चत्वारिंशत्कला दश गणांस्तत्र जानीत | पयोधरं वर्जयित्वा हे सुप्रिया मदनगृहं कुरुत ||]
पदचतुष्टये चत्वारिंशत्कलाः पदचतुष्टयेऽपि दश गणाञ्जानीत । हें सुप्रियाः, पयोधरं जगणं वर्जयित्वा मदनगृहमिति छन्दः कुरुत | भूषणे त्व[न्य ] थोक्तम् - 'प्रथमं कुरुषट्कलमन्ते कुण्डलमिह मध्ये वसुतुरगधरं संतापहरं दश वसुभुवनाष्टभिरत्र चरणमपि भवति विरामो यदि ललितं कविवलयहितम् । फणिनायकभणितं जगणविरहितं चत्वारिंशत्कलाकलितं भुवने महितं वृत्तं रसनिकरं तन्मदनहरं नरपतिसंसदि लब्धपदं गुरुशोकनुदम् ॥' मदनगृहमुदाहरति- जहा (यथा ) -
3
जिणि कंस विणासिभ कित्ति पआसिअ मुट्ठिअरिट्ठविणास करू गिरि हत्त धरू जमलज्जुण भञ्जिअ पअभरगञ्जिअ कालिअकुल जैस भुवन भरें ।
चाणूर विडिअ णिअकुल मण्डिअ राहामुहमहुपाण करे जिमि भमरवरें
सो तुझ राअण विप्पपराअण चित्त हि चिन्ति देउ वरा भउभीतिहरा ॥
[येन कंसो विनाशितः कीर्तिः प्रकाशिता मुष्टिकारिष्टविनाशः कृतः गिरिहस्ते धृतो यमलार्जुनौ भञ्जिती पदभरगञ्जितं कालियकुलं यशसा भुवनं भृतम् ।
चाणूरो विखण्डितो निजकुलं मण्डितं राधामुखमधुपानं कृतं यथा भ्रमरवरेण
सतुभ्यं नारायणो विप्रपरायणश्चित्ते चिन्तितं ददातु वरं भवभीतिहरः ॥]
१. इदं लक्षणान्तरं रविदासटीकायां न व्याख्यातम्. २. 'रिडिअमुडिविणा' इति रविदासेन व्याख्यातम्. ३. 'गिरि तोलि धरु' इति पाठो रविदासटीका पुस्तके. ४. 'संहार करू' इत्यप्यधिकमितः पुरं पुस्तकत्रयेऽपि.