________________
काव्यमाला ।
बि बि सल्ल पहिल्लिअ तुरह वहिल्लिअ रहहअगअ पसरन्त धरा
गुरु सज्जि वरा जइ जग्गि णिरुत्तउ दहगणजुत्त चउसंधि हि चालीस धरा भणु ___ मअणहरा ॥ १५३ ॥ [प्रिये भणामि मनोहरं प्रेरयित्वा (१) पयोधरं सुभगस्वभाव सुस्निग्धं क्षणं
स्थिरं कुरु मनो यदि राज्यं विमन्त्र्यते अनुसर क्षत्रियं निष्कास्य बहिश्छन्दो भण यथा ___ स्मर्यते ऋणम् । द्वौ द्वौ शल्यौ प्रथमं तुरगं स्थापयित्वा रथहयगजाः प्रसरन्ति धर गुरुं
सज्जीकृत्य वरं । यदि जाग्रन्निरुक्तो दशगणयुक्तं चतुःसंधौ हि चत्वारिंशद्धर भण मदन
गृहम् ॥] हे प्रिये, मनोहरं मदनगृहं नाम छन्दो भणामि । किं कृत्वा । पयोधरं प्रेरयित्वा (2) जगणं दूरीकृत्येत्यर्थः । त्वं सुभगस्वभाव, सुस्निग्धं मनः क्षणं स्थिरं कुरु । दत्तचित्ता शृ. ण्वित्यर्थः । यदि राज्यं विमन्त्र्यते तदानुसर क्षत्रियजातिम् । तदेवाह-छन्दःशास्त्रसागरादहिराकृष्येदं छन्दो भण । तत्प्रशंसामाह-यथा परकीयमृणं खलइ सदा स्मृतिपथमुपैति, तथैतदपि ॥ उदृवणिकामाह-द्वौ द्वौ शल्यौ लघु प्रथमं वहिल्लिअ स्थापयित्वा ततस्तुरगहयगजपदातयो नव चतुष्कला जगणरहिताः प्रसरन्ति । शेषे गुरुः सजीकृत्य स्थापितः । कीदृशः । अस्मिञ्छन्दसि पदान्ते जग्गि जाग्रत् श्रेष्ठत्वेन सगणत्वेन यदि निरुक्तः तदा चतुष्कलगणदशकेन युक्तमिति छन्दोविशेषणम् ॥ चउसंधौ पदचतुष्टये चत्वारिंशन्मात्राः । समुदितखण्डचतुष्टयपिण्डकलासंख्या षष्ठयुत्तरशतात्मिका भवतीति धरास्थानकानि । एतादृशलक्षणलक्षितं दशवसुभुवनाष्टकविरतिकं मदनगृहं नाम छन्दः ॥ इदमप्युदाहरणम् ॥
उक्तलक्षणमेवाह-- • बेवि मत्त सिरि ठाउकहु वलआ अन्तए ठवेहु । णव चउकलगण मज्झ धरि मअणहराई करेहु ॥ १५४ ॥
द्वे मात्रे शिरसि स्थापयित्वा वलयमन्ते स्थापयन्तु । नव चतुष्कलगणान्मध्ये धृत्वा मदनगृहं कुरुत ॥]