________________
काव्यमाला।
तिण्णि धरहिबे वि करहि अंत रगण लक्खए
क मण जणइ दप्प भणइ हीर सुकइ पक्खए ॥ १४९ ॥ [नागः प्रभणति त्रीन्षट्कलगणानन्ते कुरु जोहलं
हारं स्थापयित्वा पुनरपि सुप्रिय विप्रगणैर्शबलम् । त्रीन्धारय द्वावपि कुर्वन्ते रगणं लेखय
को मनुष्यो जानाति दर्पण भणति हीरः सुकविः प्रेक्षते ॥] भोः शिष्य, हीरनामकमिदं छन्दो नागः पिङ्गलः प्रभणति तत्वं शृणु । तत्र त्रीन् षट्कलगणान्कुरु । तस्यान्ते जोहलं रगणं कुरु । षट्कले विशेषमाह-हारं गुरुं पूर्वे स्थापयित्वा । हे सुप्रिय सुतरां प्रिय शिष्य, हारानन्तरं विप्रगणैश्चतुष्कलैः सर्वलघुकैः शबलमिति च्छन्दोविशेषणम् । पदे कलासंख्यामाह-तिणीति त्रीन्धारय द्वौ कुरु 'अङ्कस्य वामा गतिः' इति गणिते त्रयोविंशतिः कलाः पादे भवन्तीत्यर्थः । अन्ते रगणं लेखय कश्छन्दस्कार एतच्छन्दो जानाति । अपि तु न कोऽपि । दर्पण गर्वेण हीरस्तु कविर्भणति अन्यः कः प्रेक्षते । अद्यावधि कस्यापि नयनगोचरो नाभवदिति भावः । अत्र च्छन्दःकविनानोरैक्यमवगन्तव्यम् ॥ इदमप्युदाहरणम् ॥ उक्तमेवाह
हार सुपिअ भण विप्पगण तीए भिण्णसरीर । जोहल अंते संठवहु तेइस मत्तह हीर ॥ १५० ॥ [हारं सुप्रिय भण विप्रगणस्त्रिधा भिन्नशरीरः ।
जोहलमन्ते संस्थापयतु त्रयोविंशतिमात्रमस्ति हीरम् ॥] हे सुप्रिय शिष्य, पूर्व हारं गुरुं भण । ततो विप्रगणश्चतुर्लघुकः । स च त्रिधा मिन्नशरीरः । एवं त्रिवारं कर्तव्यः । तदन्ते जोहलं रगणं स्थापय । एवं सति त्रयोविंशतिर्मात्रा हीरच्छन्दसः पदे पतन्ति समुदिता द्विनवतिर्मात्रासंख्या ॥ भूषणेऽप्युक्तम् –'वहिरगणमन्त्यरगणमेकवरणशोभितं पश्य सुदति नागनृपतिरत्र वदति नो हितम् । रामभजनका. लपठन एव रटनरञ्जनं हीरकमिति नाम भवति काममवति सजनम् ॥' हीरमुदाहरति-जहा(यथा)
धिकदलण थोंगदरण तक तरुण रिंग ए __नं न इगट दिंग इ गट रंग चल तुरंग ए । धूलिधवल हकसबल पक्खिपबल पत्ति ए
कण्ण चलइ कुम्म ललइ भुम्मि भरइ कित्ति ए ॥ १. 'गण' इति पठित्वा ‘सुप्रियो द्विलघुर्गणः, तथाविधगणद्वयं विप्रगणो वा' इति रविदासेन व्याख्यायि.