SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । [दशवसुचतुर्दशसु विरतिं कुर्वन्तु विश्रामे कर्णगणान्दत्थ । अन्तरे विप्रपदातिकान्भणन्तु दुर्मिला छन्द: कथयन्तु ॥] दश- अष्ट- चतुर्दशमात्रासु विरतिं कुर्वन्तु । तत्र विश्रामे कर्णगणान्दत्थ । अन्तराले विप्राश्चतुर्लघुकाः पदातयः साधारणाश्चतुर्मात्रा गणास्तान्भणन्तु । एवं दुर्मिलाछन्दः कथयन्तु ॥ भूषणेऽपि—' द्वात्रिंशन्मात्रं भवति पवित्रं फणिपतिजल्पितवृत्तवरं दशवसुभुवनैर्यतिरत्र प्रभवति कविकुलहृदयानन्दकरम् । यद्यष्टचतुष्कलकलितसकलपदमिति दुमिलनामधरं नरपतिवरतोषणवन्दिविभूषणभुवनविदितसंतापहरम् ॥' इदमप्युदाहरणम् ॥ तामुदाहरति - जहा (यथा ) - ९३ जेइ किज्जिअ धाला जिणु णिव्वाला भोडन्तापित चले भंजा विअ चीणा पहि हीणा लोहावल हाकंद पले । औड उड्डाविअ कित्ती पाविअ मोडिअ मालउराअबले तैलंग भग्ग बहुरिणलग्गिअ कासीसरराज जँ क्खण्ण चले ॥ [ येन धारा कृता जिता नृपाला भोटन्तः पीडयंश्चलितः भग्ना अपि च चीना दर्पेण हीना लोहाबले हाक्रन्दः पतितः । ओड्डू उड्डायितः कीर्तिः प्राप्ता च मोटितं मालवराजबलं तैलङ्गा भग्ना बहुऋणलग्ना: काशीश्वरराजो यत्क्षणे चलितः ॥] कश्चित्कविः काशीश्वरप्रयाणमनुवर्णयति — येन धारा व्यूहः कृतः । अस्मिन्नेवान्तरे नृपालाः शत्रवो जिता एव । ' णेवाला' इति क्वचित्पाठः । तत्र नेपाला जिता: । भोटन्तदेशस्थो लोकः पीडयन्नुरः शिरश्च ताडयन्निर्गतः । भग्नाश्चीनाश्चीनदेशस्थाः । कीदृशाः । दर्पेण हीनाः । लोहाबले देशे हाक्रन्दो हाहाकार: पतितः । उत्कल उड्डायितः । ततश्च कीर्तिरपि प्राप्ता । मोटितं च मालवराजस्य बलम् । तैलङ्गास्तु बहुतरऋणग्रस्ता भग्नाः पलायिताः । एककाशीश्वरो राजा यस्मिन्क्षणे चलितः, तस्मिन्नेव क्षणे इयमवस्था जातेत्यर्थः ॥ उवणिका यथा—ss, ॥s, IIS, SS, ISI, ISI, ISI, ॥s, (३२) ss, IIS, SS, ISI, SS, SII, SS, IIS, (33) SS, SS, IIS, SS, IIS, IIS, IIS, IIS, (33) SS, SS, IIII, IIS, IIS, SII, IIII, IIS, (33) || 'अथ हीरच्छन्द: णाअ पभण तिणि छ गण अंत कराहि जोहलं हार ठविअ पुणवि सुपि विपगणहि सवलम् । १. 'दप्पविहीणा लोहाचल' रवि ० २. स्वकीयाश्वगतिविशेषवाचिधाराशब्दस्य स्वगतौ लक्षणया प्रयोगः .
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy