________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । जइ पलइ पओहर किमइ मणोहर हैरइ कलेवर तासु कई
तिब्भङ्गी छन्दं जाणि आणन्दं भणइ फणिन्दो विमलमई॥१४६॥ [प्रथमं दशसु विश्रामोऽष्टसु विरतिः पुनर्वसुषु विरती रसेषु विरति
रन्ते गुरुः शोभते त्रिभुवनं मोहयति सिद्धः श्लाघते वरतरुणः । यदि पतति पयोधरः किमिदं मनोहरं हरति कलेवरं तस्य कवेः
त्रिभङ्गी छन्दो जानीतानन्दं भणति फणीन्द्रो विमलमतिः ॥] यत्र प्रथमं दशसु मात्रासु रहणं विश्रामः, ततोऽष्टसु विरतिः, पुनरपि वसुषु विरतिः, ततो रसेषु षट्सु विरतिः, अन्ते पदचतुष्टयस्यान्ते यत्र गुरुः शोभते तच्छन्दस्त्रिभुवनं मोयति । सिद्धोऽपि वरतरुणोऽपि श्लाघते इति तस्य च्छन्दसः प्रशंसा । दोषमप्याह-योतस्मिञ्छन्दसि पयोधरो जगणः पतति तदा किमिदं मनोहरम् । अपि तु नेत्यर्थः । किं च यस्य कवित्वं क्रियते तस्य कलेवरं हरति कवेरपि । तस्मादत्र जगणो न कर्तव्यः । एतत्रिभङ्गीछन्दः सुखानन्दजनकं विमलमतिः फणीन्द्रो भणति । अत्र चरणे द्वात्रिंशन्मात्रा भवन्ति, अष्टौ चतुष्कला गणा भवन्ति ॥ भूषणेऽपि-'प्रथमं यदि दशमं वदति विरामं तदनु निकामं वसुवसुकं वसुविमलतुरंगममतिहृदयंगम हृषितभुजंगमनृपतिलकम् । त्रिंशद्विकलासंविहितविलासं सततनिवासं हृदयमुदः मदमुदितभुजङ्गी मोहनरङ्गी वदति त्रिभङ्गीवृत्तमदः ॥' इदमप्युदाहरणम् ॥
उदाहरति-जहा(यथा)सिरकि[ज्जि]अगङ्गं गोरिअद्धङ्ग हणिअअणङ्गं पुरदहणं
किअफणिवइहारं तिहुअणसारं वीदिअछारं रिउमहणम् । सुरसेविअचरणं मुणिअणसरणं भउभअहरणं सूलहरं
साणन्दिअवअणं सुन्दरणअणं गिरिवरसअणं णमअ हरम् ॥ [शीर्षकृतगङ्गं गौर्यर्धाङ्ग हतानङ्ग पुरदहनं
कृतफणिपतिहारं त्रिभुवनसारं विदितक्षारं रिपुमथनम् । सुरसेवितचरणं मुनिगणशरणं भवभयहरणं शूलधरं
___ सानन्दितवदनं सुन्दरनयनं गिरिवरशयनं नमत हरम् ॥] कश्चिद्भक्तः शिवं स्तौति-भा लोकाः, एतादृशं हरं नमत । कीदृशम् । शीर्षे कृता गङ्गा येन । कृता गौरी अर्धाङ्गे येन । हतोऽनङ्गो येन । पुरस्य त्रिपुरस्य दहनोय. स्तम् । कृतः फणिपतेः शेषनागस्य हारो येन । त्रिभुवने सारं श्रेष्ठम् । विदितं भस्म येन
१. 'हणइ (हन्ति)' रवि०. २. 'सुक्खाणन्द रवि०. ३. 'वंदिअछार' रवि....