________________
काव्यमाला।
[द्वितीये षट्कलमेकं कथयन्तु चत्वारः पञ्चकला देयाः ।
द्वादशोत्तरं मात्राः शतं मानसमन्ते स्थापयत ॥] द्वितीयस्थाने एकं षट्कलं कथयन्तु । अवशिष्टाश्चत्वारः पञ्चकला गणा देयाः । पिण्डसंख्यामाह-द्वादशोत्तरं शतं मात्राः । पादचतुष्टयेऽपि मानसमेकं गुरुमन्ते स्थापयत । तेन प्रतिपदमष्टाविंशतिर्मात्राः ॥
तामुदाहरति-जहा (यथा)गअ गअहि ढुक्किम तरणि लुक्खिअ तुरअ तुरअहि जुड्डुिआ
रह रहहि मीलिअ धरणि पीडिअ अप्प पर णहि बुज्झिआ। बल मिलिअ आइअ पत्ति धाइउ कम्पि गिरिवरसीहरा
उच्छरइ साअर दीण्ण काअर वइर वडिअ दीहरा ॥ [गजा गजैर्युक्ता तरणिनिलीनस्तुरगास्तुरगैर्युयुधिरे .
स्था रथैर्मेलिता धरणी पीडिता आत्मीयाः परे नहि बुद्धाः । बलानि मिलितानि पत्तयो धाविताः कम्पितानि गिरिवरशिखराणि
उच्छलति सागरो दीर्णाः कातरा वैरं वर्धितमतिदीर्घम् ।।] कश्चिद्वन्दी संकुलं युद्धमनुवर्णयति-गजा गजैर्युक्ताः, तरणिधूलिभरेण निलीनः, तुरगास्तुरगैः सह युयुधिरे, रथा रथैर्योजिताः । अत एव धरणी पीडिता । तस्मिन्समये आत्मीयाः परकीयाश्च न ज्ञाताः । अथ च बलानि मीलिअ परस्परमेकीभूतानि । पदातयस्ततो धाविताः, अत एवातिभरेण कम्पितानि च गिरिवरशिखराणि । उच्छलति च सागरः । कातर्येण दीना दीर्णाः । कातरा इति वा । वैरमतिदीर्घ वर्धितम् ॥ उध्वणिका यथा-m, sun, sm, in, is, 5, (२८) , sm, is, sm, us, s, (२८) ॥m, sus, ISI, sm, usi, s, (२८) sm, sis, Ish, sis, usi, s, (२८)॥ यथा वा प्रन्थान्तरस्थमुदाहरणम्-'सखि बम्भ्रमीति मनो भृशं जगदेव शन्यमवेक्ष्यते परिभिद्यते मम हृदयमर्म न शर्म संप्रति वीक्ष्यते । परिहीयते वपुषा भृशं • नलिनीव हिमततिसंगता रुदती परं वदतीति सा सुदती रतीशवशं गता ॥'
अथ तिम्भङ्गी(त्रिभङ्गी)छन्दःपढमं दह रहणं अट्ठइ रहणं घृणु वसु रहणं रस रहणं __ अन्ते गुरु सोहइ तिहुँअण मोहइ सिद्ध सएहइ वरतरुणम् ।
१. "णिअ ण पर अण' रवि०. २. "मिल पलाइउ पत्ति जाइउ' रवि०. ३. 'पणि' रवि०. ४. 'महेअल' रवि०. ५. 'सिद्धसरोहं (सिद्धेः सरोवर)' रवि०.