SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ८८ अथ लीलावतीछन्द:-- गुरु लहु हि णिम्म णिम्म गहि अक्खर पलइ पओहर विसम समं जहि कहू हि णिम्म तरलतुरअ जिमि पसर विदिस दिस अगमगमम् । गण पंच चउकल पलइ निरंतर अंत सगण धुअ कण्णगणं परिचलइ सुपरिलील लिलावर कलवतीसु विसाम करम् ॥ १४३ ॥ [गुरौ लघी नहि नियमो नियमो नाक्षरे पतति पयोधरो विषमे समे, यत्र कोऽपि नहि नियमस्तरलस्तुरगो यथा प्रसरति विदिशि दिश्यगम्ये गम्ये । गणाः पञ्च चतुष्कलाः पतन्ति निरन्तरमन्ते सगणो ध्रुवं कर्णगणः, परिचलति सुपरिलीलया लीलावती द्वात्रिंशत्कलासु विश्रामं करोति ॥] काव्यमाला | यत्र छन्दसि लघौ गुरौ वा नियमो नास्ति । अक्षरेऽपि न नियमः । अत्र विषमे चरणे जगणः समेsपि पयोधरो जगणः पतति । अत्र कोऽपि नियमो नास्तीत्यर्थः । तरलस्तुरगो यथा प्रसरति दिक्षु विदिक्षु अगम्ये गम्ये च । स्थले इति शेषः । तथा सुतरां परितो लीलया समन्ततः खेलया इयं लीलावती परिचलति । करः कर्णो द्विजगणो भगणो जगण इति चतुष्कलाः पञ्चापि गणा निरन्तरमेकोपक्रमेण पतन्ति । तत्रान्ते ध्रुवं निश्चितं स दिव्यगणो भवति । किंच सा लीलावती द्वात्रिंशत्कलासु विश्रामं करोति । लघुर्गुर्वपेक्षया गणेsपि नियमो नास्ति । यथाकथंचिद्वात्रिंशत्कलाः पूरयितव्याः । तथा च भूषणे – 'लघुगुरुवर्णनियमविरहितमिह हि सुकलय चतुष्कलमष्टगणं द्वात्रिंशत्क - लविरचितमिदमतिशयसहृदय हृदयदुःखहरणम् । लीलावतिका भवति च करकर्णद्विजगणभगणजगणकलिता फणिनायकपिङ्गलविरचितमद्भुतवृत्तममलगुम्फन ललिता ॥' इदमप्यु दाहरणम् ॥ तामुदाहरति - जहा (यथा ) - घर लग्गइ अग्गि ज्जलइ हह कइ णह पह दिगमग अणलभरे सवदेस पसरि पाईक लुरइ धणि थण हरजहण दुहाव करे । · भअ लुकिअ पक्कि वैरितरणिगण भेरवभेरिअसद्द पले महि लुट्टइ पट्टइ रउसिर तुट्टइ जक्खण वीर हमीर चले || [गृहेषु लग्नोऽग्निर्ज्वलति धधहं कृत्वा नहि पन्था दिव्मार्गोऽनलभृतः, सर्वदेशे प्रसृतः पदातिश्चलति धनीनां स्तनौ गृहाञ्जघनाद्विधा करोति । भयेन लीनाः श्रान्ता वैरितरुणीगणा भैरवभेरीशब्दे पतिते, मह्यां लुठति आहन्ति रिपुशिरस्त्रोटयति यस्मिन्क्षणे वीरो हम्मीरचलितः ]
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy