________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
एतस्यैव चतुर्थ चरणादौ परहा इति बन्दिनः पठन्ति (?) । हे मुग्धे, यत्र प्रथमं षण्मात्रो गणः पदे पदे दृश्यते । ततश्च पञ्चमात्रश्चतुर्मात्री गणो नान्यत्र क्रियते । अथ संस्मृत्यान्ते पदान्ते लघुर्गुरुश्च एकैकस्य चरणस्यान्ते चाहए अपेक्षते । एवमुक्तलक्षणं तत्प्लवंगमाख्यं छन्दो विचक्षणान्मोहयतीति । भूषणेऽपि - ' षट्कलमादिगुरुं प्रथमं कुरु संततं पञ्चकलं च ततोऽपि चतुष्कलसंगतम् । नायकमत्र चतुर्थमितो गुरुमन्तके एकाधिकविंशतिः लवंगमवृत्तके ॥ इदमप्युदाहरणम् ॥
उक्तमेव लक्षणं विशदीकृत्याह -
पअ पर आइहि गुरुआ पिंगलप भणेइ सकलणिभत्ता । छंद पवंगम दिट्ठो मत्ताणं एअवीसत्ता ॥ १४२ ॥ [पदे पद आदौ गुरुं पिङ्गलो भणति सकलनिर्भ्रान्तः । छन्दः प्लवंगमं दृष्टं मात्राणामेकविंशतिः ||]
....... सकलेषु संस्कारेषु निर्भ्रमः पिङ्गलो भणति । तन्मात्राणामेकविंशत्या दृष्टं लवंगमाख्यं छन्दो भवत्वि | गाथा छन्दः ॥
तमुदाहरति - जहा (यथा ) -
चर चंचल विज्जुलिआ सहि जाणए मम्भहखग्गकिणी सइ जलहरसाणए । फुल्ल कलंबन अंबरडंबर दीसए
पाउस पाउ घणाघण सुमुहि वरीसए || [ नृत्यति चञ्चला विद्युत्सखि जानीहि
मन्मथखङ्गकणिका सज्जलधरशाणके । पुष्पिताः कदम्बा अम्बरडम्बरो दृश्यते
प्रावृट् प्राप्ता घनाघनः सुमुखि वर्षति ॥ ]
1
काचित्प्रोषितपतिका सखीमाह -- हे सखि, नृत्यति चञ्चला विद्युत् । उतान्यत्किंचि - देतदिति जानीहि | अहं त्वेवं मन्ये । मन्मथखड्ग कणिका सजलधरशाणके इति । अपि च पुष्पिताः कदम्बा: । अम्बरडम्बरो मेघाडम्बरो दृश्यते । अतः प्रावृद् प्राप्ता । हे सुमुखि, घनाघनो वर्षुकघनो वर्षतीति वाकोवाक्यम् ॥ उवणिका यथा — sus॥SIISIISIS, SIIS||S||||||SIS, S||||||||SIS, S|S|||||||isis, già àrgi प्रकरणम् ॥
१. 'वाकोवाक्यमुक्तिप्रत्युक्तिः' इति प्रकृतपदव्याख्याने व्याकरणभाष्यप्रदीये कैयटः .