________________
काव्यमाला।
कुन्तकरः, धनुर्धरः, हयवरः, गजवरः, चतुष्कलाचत्वारो गणाः ततः षट्कलो गणः, ततः पदातिद्वयं चतुष्कलगणद्वयम्, अन्ते गुरुरिति द्वात्रिंशन्मात्राः पदेषु प्रसिद्धा जानीत बुधजना हृदयतले । समुदितमात्रासंख्यामाह-अष्टाविंशत्यधिकशतकलाः संपूर्णा यस्मिस्तद्रूपं फणिभाषितं भुवने लोके दण्डकलेति निरुक्तं गुरुसंयुक्तमिदं छन्दः पिङ्गलो जल्पति । इदमप्युदाहरणम् ॥
तामुदाहरति-जहा (यथा)राअहं भग्गं तादिअ लगता परिहरि हअगअघरघरिणी
लोरहिं भरु सरवर रुअइ अरुअवरु लोट्टइ पिट्टइ तणु धरणी। पुणु उट्ठइ संभलि करदत्तंगुलिबालतनयकरजमलकरे ___ कासीसर राआ णेहलुकाआ करमाआ पुणु थप्पि धरे ॥ [राजानो भग्ना दिक्षु लग्नाः परिहृत्य हयगजगृहगृहिणीः ___ अश्रुभिर्भूताः सरोवरा रोदिति"...""लुठल्याहन्ति तनुं धरण्याम् । पुनरुत्तिष्ठत्यवधार्य करदत्ताङ्गुलिबालतनयकरयमलकरा
काशीश्वरो राजा स्नेहलकायः करमायां पुनः स्थापयित्वा धृतवान् ॥] कश्चिद्वन्दी काशीश्वराहितानां पलायनमनुवर्णयति-हे काशीपते, तवाहिता राजानो भनाः पलायिता अतएव दिक्षु लग्नाः । किं कृत्वा । हयगजगृहगृहिणीः परित्यज्य । अथ च तासां पुरंध्रीणां लोहरहिं अश्रुभिः सरोवराः कासारा भृताः पूर्णाः । तन्मध्ये पट्टमहिषी काचिद् धरिण्यां लुठति, रोदिति, तनुमाहन्ति, पुनरप्युत्तिष्ठति, संभलिअ अव. धार्य । कथंभूता । करे दत्ताङ्गले लस्य तनयस्य करयमले करद्वये करो यस्याः । स्वकरेण विधुतबालकरद्वयेत्यर्थः । एवं जाते सति काशीश्वरो राजा स्नेहल: स्नेहयुक्तः कायो यस्य । करेण दण्डेन पुनर्माआं दयां स्थापयित्वा धृतवान् शत्रुराज्यमित्युपरिष्ठादेतेन दण्डं गृहीत्वा तांश्च राज्ये प्रतिष्ठापयामास ॥ उद्दवणिका यथा- Issssssms, SII||||||||||||ISITSIIIIIIS, IISIISIIIISSIISIIIIIIIIlis, SSIISSSIISSIISSIISIIS. अथ दीपकछन्दः
सिर देहू चउमत्त लहु एक तंसु अंत । दंतेक तसु मज्झ दीपक सोइ वुज्झ ॥ १३८ । [शिरसि देहि चतुर्मात्रं लघ्वेकं तस्यान्ते ।
दन्तमेकं तयोर्मध्ये दीपकं तद्गुध्यस्व ॥] आदौ चतुर्मात्रं गणं देहि । तस्यान्ते एकं लघु देहि । ततस्तयोश्चतुष्कलमध्ये 'त्रय१. 'कर' रवि०. 'कुरु' इति तच्छाया. २. अत्र त्रुटिता टीकेति भाति.