________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । .."बुध्यस्व । तदुक्तं भूषणे-'तुरगैकमुपधाय सुनरेन्द्रमवधाय । इह दीपकमवेहि लघुमन्तमभिधेहि ॥' इदमप्युदाहरणम्-जहा (यथा)
जसु हत्थ करवाल विप्पक्खकुलकाल । सिर सोह वरछत्त संपुण्णससिवत्त ॥
[यस्य हस्ते करवालो विपक्षकुलकालः ।
शिरसि शोभते वरच्छत्रं संपूर्णशशिवत् ॥] यस्य राज्ञो हस्ते करवालः खड्गः शोभते । कीदृशः । शत्रुकुलकालकल्पः । यस्य च शिरसि वरमुत्तमं छत्रं शोभते संपूर्णशशिवत् ॥ उद्दवणिका यथा-smsssmsi, AISIIISISSIIISI. अथ सिंहावलोकच्छन्दः
गण विप्प सगण धरि मत्त कसं
भणु सिंघवलोअणु छंदु धुअम् । गुणिगण मण बुज्झहु णाअ भणा
तसु जगणु ण भगणु ण कण्णगणा ॥ १३९ ॥ [विप्रगणसगणौ धृत्वा षोडश मात्रा
भणन्तु सिंहावलोकनं छन्दो ध्रुवम् । गुणिगणा मनसि बुध्यध्वं नागो भणति
यस्य जगणो न भगणो न कर्णगणः ॥] भो गुणिगणाः, विप्रसगणाभ्यामेव प्रतिपदं षोडश मात्रा धृत्वा भणन्तु सिंहावलोकन छन्दः । ध्रुवं निश्चितं बुध्यध्वम् । नागो भणति । अत्र न जगणो न मगणो न च कर्णः गणो भवति । व्यस्तसमस्ताभ्यां विप्रगणाभ्यामेव षोडशकलं सिंहावलोकनं छन्दो भवति । एतच्च शृङ्खलाबन्धनक्रमेण चरणान्तवर्णद्वयावलम्बनेन भवतीति ज्ञेयम् । तथा चोक्तं वाणीभूषणेऽपि-'शृणु सिंहावलोकितवृत्तवरं वरयमकमनोहरचरणधरम् । धरणीपतिमानसमधिकलितं किल वेदचतुष्कलगणललितम् ॥ इदमप्युदाहरणम् ॥ उक्तामेवोदृवणिकां स्पष्टीकरोति
विप्पसगण पअ बेवि गण अंत विसज्जहि हार । पच्छा हेरि कइत्त करु सोलह कल पत्थार ॥ १४० ॥