SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | ७२ कत्र निर्दिष्टः समानो धर्मः प्रसङ्गेनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालंकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः । अत्र प्राकरणिकत्वाप्राकरणिकत्वविवर्तित्वादुपमानोपमेयभावस्यानेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः । वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकारख्यास्त्रयोऽस्य भेदाः । क्रमेणोदाहरणम् 'रहे मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम् । अमरण धैणीधवलो तुमरण [ अ ] णाह भुवणमिणम् ॥' 'संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लव गताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥' अभावात् । तत्रेति दीपके । वास्तव इति । प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात् । पूर्वत्रेति तुल्ययोगितायाम् । इयानेव च दीपकतुल्ययोगितयोर्विशेषोऽस्तीत्यप्यनेन दर्शितम् । न चैतावतैवानयोः पृथग्लक्षणं युक्तम् । औपम्यगर्भत्वाख्यस्य सामान्यस्य द्वयोरप्यनुगमात् । एवं च समुच्चितोपमादेरपि पृथग्लक्षणं स्यात् । ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतम् । वैक्षिक इति । यत्रैव वक्तुरुपमानत्वमुपमेयत्वं वा वक्तुमिष्टं तत्रैव प्रकरणादिबलादा1 श्रयणीयमित्यर्थः । अतश्च 'प्रस्तुतस्य विनान्येन व्यभिचारस्य दर्शनात्' इति नीत्या प्रस्तुताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः । एवं 'प्रसिद्धेनाप्रसिद्धस्य सादृश्यमुपमा मता' इत्यादिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिबन्धनोऽप्युपमानोपमेयभावो न वाच्यः । 'खमिव जलं जलमिव खं' इत्यादौ द्वयोरपि तुल्यत्वात् । प्रसिद्धगुणत्वाद्यभावेऽप्युपमानोपमेयभावस्यैष्टेर्व्यभिचारस्य दर्शनात् । ननु चात्र साधर्म्य वाक्यार्थगतत्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्कयाह — अनेक स्येत्यादि । एवं पूर्वत्रापि ज्ञेयम् । धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते – 'धम्मजणेण काण वि काणवि अत्थज्जणेण बोलेई । कामजणेण काण विकाण वि एमेअ संसारो ॥' ऐकक्रियमित्यनेनैकगुणमपि दीपकं स्वयमेवोदाहार्यमिति सूचितम् । १. 'दीपकालंकारोद्दीपकः ' ख. २. 'राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् | अमृतेन त्वया च नाथ भुवनमिदम् ॥' इति च्छाया. ३ 'अजीघवलो' ख. १. 'तु नान्येन' क. २. 'एकक्रियेत्यनेनैक' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy