________________
अलंकारसर्वस्वम् । 'योगपट्टो जटाजालं तारवीत्वमृगाजिनम् ।
उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ॥' उचितत्वं गुणः । अप्राकरणिकानां यथा'धावत्त्वदश्वपृतनापतितं मुखेऽस्य
निर्निद्रनीलनलिनच्छदकोमलाङ्गया । भग्नस्य गूर्जरनृपस्य रजः कयापि
तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥' अत्र गूर्जर प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया। गुणो यथा
'त्वदङ्गमार्दवद्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ॥' कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता ।
प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यतेप्रस्तुताप्रस्तुतानां तु दीपकम् । औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोर्मध्यादे
इत्युदाहरणान्तरेणोदाहियते यथा-'शंभोर्यन्नखरश्मिभिः प्रणमतश्चूडामणित्वे स्थिता गङ्गा चन्द्रकला च सर्वजगतां वन्यत्वमापादिता । युक्तायाः परतापदावविपदः कन्या पितृणामसौ दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यते । अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद्गङ्गाचन्द्रकलयोरप्रकृतत्वम् । आपादनं च क्रिया । बिम्बप्रतिबिम्बभावेनापीयं भवति । यथा-'क्षिपन्त्यचिन्त्यानि पदानि हेलया स्वराजहंसानधिरुह्य च स्थिता । कवीन्द्रवक्रेषु च यत्र शारदा सहस्रपत्रेषु रमा च रज्यति ॥' अत्र वक्रपद्मयोबिम्बप्रतिबिम्बभावः । अनेनैव चाशयेनात्रालंकारवार्तिके ग्रन्थकृता वैशिष्टयमस्या दर्शितम् । शुद्धसामान्यरूपत्वेन यथा-'आस्तां बालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये । एका पयःप्रस्रविणी सर्वसंपत्प्रसूः परा ॥' अत्र प्रस्रवणस्य शुद्धसामान्यरूपत्वम् । एतदुपसंहरनन्यदवतारयति-प्रस्तुताप्रस्तुतानामिति । एकत्रेति प्राकरणिकेऽप्राकरणिके वा । अन्यत्रेति प्राकरणिकादौ । दीपकेति 'संज्ञायाम्' इत्यनेन कन् । सादृश्येन समुदायगम्यायाः संज्ञाया
१. 'अप्राकरणिकत्वं' क. २. 'मार्दवं' क. ३. 'अत्र कठोरत्वं' ख.