SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । कारप्रस्तावे प्रपञ्चाथै लक्षयिष्यते । एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्ये पदार्थगतमलंकारद्वयमुच्यते औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता । इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा 'सज्जातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककरप्रभावादिनानि पद्मानि च वृद्धिमीयुः ॥' अत्र ऋतुवर्णनस्य प्रक्रान्तत्वादिनानां पद्मानां च प्रैकृतत्वाद्वृद्धिगमनं क्रिया । एवं गुणेऽपि । यथास्यात् । तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् । एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्तिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन । प्रपश्चार्थमिति । न तु निर्णयार्थम् । इहैव तस्य निश्चितत्वात् । प्रपञ्चश्च तत्रैव दर्शयिष्यते । एतदुपसंहरनन्यदवतारयतिएवमित्यादिना । गम्यमानौपम्याश्रया इति इवाद्यप्रयोगात् । पदार्थमिति । वाक्यार्थापेक्षया पदार्थप्रतीतेरन्तरङ्गत्वात् । तत्र प्रथमं तुल्ययोगितामाह-औपम्येत्यादि । एतदेव व्याचष्टे-इवेत्यादिना । तत्रेत्यौपम्यस्य गम्यत्वे सति । प्राकरणिकानामिति द्वयोः समानधर्मसंबन्धस्य संभवादेव ग्रहणसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थम् । अत एव च बहूनामौपम्यग्रहणायेति न वाच्यम् । वक्ष्यमाणोदाहरणेषु द्वयोरौपम्यस्योद्भासमानत्वात् । एवं दीपकेऽपि ज्ञेयम् । अन्वितार्थेति । समानधर्मसंबन्धिनामत्र भावात् । अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्मकधर्मयोगाद्वैविध्येन चतुष्प्रकारत्वमप्युक्तम् । न चास्यातिशयोक्तिरनुप्राणकतया वाच्या। तां विनापि वक्ष्यमाणोदाहरणेष्वस्याः संभवात् । औपम्याभावेऽपि गुणसाम्योदाहरणद्वयं प्राच्योदाहृतत्वाब्रन्थकृतोदाहृतम् । यत्र पुनरौपम्यं प्रतीयते तदुदाह्रियते यथा-'ईर्ष्याविकारावसरे तवोचितमिदं प्रिये । स्खलद्गतित्वं वचसा लीलाचकमणस्य च ॥' अत्रोचितत्वं गुणः । अप्रकृतयोस्तु यथा-'भूभारोद्वहनव्यग्रे सुचिरं त्वयि तिष्ठति । देवाय फणिनामयः कूर्मश्च सुखिनो परम् ॥' अत्र सुखित्वं गुणः । केचिच्च नायिकामिलितयोः प्राकरणिकत्वं मन्यन्त १. 'संजात' क-ख. 'सज-आतपत्र' इति दिनपक्षे छेदः; 'सत्-जात-पत्र' इति च पद्मपक्षे. २. 'प्रक्रान्तत्वम्' क. १. 'प्रन्थदूषणोदीरणेन' क. २. 'निगीर्णत्वात्' क. ३. 'बहूनामेव' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy