SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । 'किवणाण धणं णाआण फणमणी केसराइँ सीहाणम् । कुलवालिआण थणआ कुत्तो छेप्पन्ति अमुआणम् ॥' एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगतत्वेनैकक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा 'साधूनामुपकर्तु लक्ष्मी धर्तुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥' तत्त यथा-'फणासहस्रभृदधो दिवि नेत्रसहस्रभृत् । अद्वितीयः पृथिव्यां च भवान्नामसहस्रभृत् ॥' अद्वितीयत्वं गुणः । एवमेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्यनेकक्रियागतत्वेन दीपकं भवतीत्याह-अत्रेत्यादि । अत्र चोच्छासवर्णनीयं भैरवाचार्यादिसक्तमुपकारकरणादिविशेषरूपं प्रस्तुतं श्रोतृनवबोधयितुं कविकर्टकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनम् । तेषां च सामान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता । अतश्च नेदं कारकदीपकस्योदाहरणम् । तत्तु यथा—'आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमद्भुतरसां हृदये च कर्तु मन्दादरं जनमहं पशुमेव जाने ॥' अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः । प्रस्तुताप्रस्तुतं स्फुटमेव । 'स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक । अन्तनन्दति चुम्बितुमिच्छति नवपरिणीता(णया) वधूः शयने ॥' इत्यत्र तु स्वेदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच्च समुच्चयालंकारो न तु कारकदीपकम् । तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यसद्भावे भवति । एवं सर्वक्रियाणां प्रस्तुतत्वेऽपि समुच्चयस्यौपम्याभावादेव तुल्ययोगितातोऽपि भेदः । औपम्यसद्भावेऽपि तुल्ययोगितैव । यथा-'चकार दुर्बलानां यः क्षमामागस्विनामपि । जढे निरपराधानामपि यश्च बलीयसाम् ॥' अत्र करणहरणयोः प्रकृतत्वम् । द्वयोरपि राजगतत्वेन वर्णनीयत्वात् । इदं बिम्बप्रतिबिम्बभावेनापि भवति । यथा-'मणिः शाणोल्लीढः समरविजयी हेतिनिहतः कलाशेषश्चन्द्रः सुरतमृदिता बालललना । मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥' अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा-'फैणरअणराइअङ्गो भुअंगणाहो धरं समुव्वहइ । णहदप्पणोवसोहिअसिहो अ तुह णाह भुअदण्डो ॥' अत्र राजितत्वशोभितत्वयोः शुद्धसामान्यरूपत्वम् । नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षितं तदिहापि किं न लक्ष्यत इत्या १. 'कृपणानां धनं नागानां फणमणयः केसराणि सिंहानाम् । कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥' इति च्छाया. १. 'कीर्ति निधापयितुमर्थयितुं' ख. २. 'वल्गति' ख. ३. 'फणरत्नराजिताङ्गो भुजंगनाथो धरां समुद्वहति । नखदर्पणोपशोभितशिखश्च तव नाथ भुजदण्डः ॥' इति च्छावा. १०
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy